पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१६४

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- (१) आप्याश्ममृत्मयानि स्युरपि पर्णपुटास्तथा ॥ मन्त्र विशेषो ब्रह्मपुराणे । स्रस्तभाण्डानि वर्ज्यानि पितृदैवतकर्मणि | सौवर्णताम्ररूण्याइमस्फाटिक शङ्खशुतयः | भिन्नान्यपि प्रयोज्यानि पात्र/णि पितृकर्मणि ॥ १५४ मत्स्यपुराणे | पात्रं वनस्पतिमयं तथा पर्णमयं पुनः । जलजं वापि कुर्वीत तथा सागरसम्भवम् ॥ सागरसम्भवम् = शुक्त्यादि । ब्रह्मपुराणे | दत्वा हेममये पात्रे रूपवान् स्यात् स मानवः | दत्वा रत्नमये पात्रे सर्वरत्नाधिपो भवेत् ॥ पालाशे ब्रह्मवर्चस्वी अश्वत्थे राज्यमाप्नुयात् । पात्रमौदुम्बर कृत्वा सर्वभूताधिपो भवेत् ॥ दत्वा न्यग्रोधपात्रे तु प्रजां पुष्टि श्रियं लभेत् । रक्षोन काश्मरीपात्रे दत्वा पुण्यं लभेद्यशः || सौभाग्यं चाथमाधुके फल्गुपात्रे च सम्पदः । श्वेतार्क मन्दारमये दत्वा च मतिमान् भवेत् ॥ बिल्वपात्र धनं बुद्धिं दीर्घमायुरवाप्नुयात् । अब्जपत्रपुढे दत्वा मुनीनां वल्लभो भवेत् || लिके मधुवृताभ्यां च यथा सम्भवमेव च । काश्मरी=गम्भारीः | फल्गु = काकोदुम्बरिका | ब्रह्मवैवर्ते । . पलाशफल्गुन्यग्रोधप्लक्षाश्वत्थविकङ्कताः । उदुम्बरस्तथा बिल्वश्चन्दना यशियाश्च ये || सरलो देवदारुश्च शालोऽथ खदिरस्तथा । एते ह्यर्घादिपात्राणां योनयः परिकीर्तिताः ॥ , (१) अत्र 'अपाश्ममृ-मयानीति, आदर्शपुस्तके, 'अप्यश्ममृन्मयानीति, श्राद्ध काशिकायाम् अथाश्ममृन्मयानीति, श्राद्धमयूख, पाठ उपलभ्यते, अस्माभिः पुनः "अळजं वापि कुर्वीतेति मत्स्यपुराणवचनात्, अकार पकारघटितादर्शपुस्तकपाठानुगुण्या- च 'आप्याश्म मुन्मयानीत्येव पाठो युक्त इति मत्वा स एव सन्निवेशित इति ।