पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१६५

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्राद्धोपकरणनिरूपणम् | राजतं रजताचं वा पितॄणां पात्रमुच्यते । तत्रैव- पुनस्तत्रैव । वर्षात्यजस्त्रं तत्रैव पर्जन्यो वेणुपात्रतः । एषां पात्राणामेकस्मिन् प्रयोगे एकजातयानि ग्राह्याणि । एषाम. न्यतम इति कात्यायनोक्के । इत्यर्धपात्राणि । अथ पाकपात्राणि । नागरखण्डे | शुचीनि पितृकार्यार्थ पिठराणि प्रकल्पयेत् । सौवर्णान्यथ रौप्याणि कांस्यताम्रोद्भवानि च ॥ मार्तिकान्यपि भव्यानि नूतनानि दृढानि च । न कदाचित्पचेदनमयःस्थालीषु पैतृकम् || अयसो दर्शनादेव पितरो विद्रवन्ति हि । अपैतृकं ह्यमङ्गल्यं लोहमाहुर्मनीषिणः ॥ दैवेषु चैव पित्र्येषु गर्हितं सर्वकर्मसु । कालायसं विशेषेण निन्दितं पितृकर्मणि ॥ फलानां चैव शाकानां छेदनार्थानि यानि तु । महानसेऽपि शस्त्राणां तेषामेव हि सन्निधिः ॥ दृश्यते नेतरच्छस्तं शस्त्रमात्रस्य दर्शनम् । अयः शङ्कमयं पीठं प्रदेयं नोपवेशने ॥ आदित्यपुराणे पात्राण्युपक्रम्य - मच्छिद्वेषु विलेपेषु तथानुपहतेषु च । नायसेषु न सिन्नेषु दूषितेष्विव कर्हि चित् || पूर्व कृतोपभोगेषु मृन्मयेषु न कुत्रचित् । पक्कान्नस्थापनार्थे तु शस्यन्ते दारुजान्यपि ॥ पात्रेषु फलविशेषश्चमत्कारखण्डे । स्वर्णभाण्डेषु कुर्वीत पितॄणां पाकमुत्तमम् । तेन सौभाग्यमतुलं लभते चाक्षयां श्रियम् ॥ राजतेषु हि पात्रेषु कुर्वन पाक हि पैतृकम् | पितॄणां कुरुते प्रीतिं यावदाभूतसम्प्लषम् || पचमानस्तु भाण्डेषु भक्त्या ताम्रमयेषु च ।