पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१६८

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- यक्षकर्दमलक्षणम् । कर्पूरगुरुङ्कलदर्पकुङ्कुमचन्दनैः । यक्षकर्दम इत्युक्तो गन्धः स्वर्गेऽपि दुर्लभः || इति विष्णुधर्मोत्तरोतमनुसन्धेयम् । ब्रह्मपुराणे | श्वेतचन्दनकर्पूरकुङ्कुमानि शुभानि च । विलेपनार्थ दद्यात्तु यच्चान्यत् पितृवल्लभम् ॥ कुष्टं मांसी बालकं च त्वक्कुष्टी जातिपत्रकम् । नालिकोशीरमुस्तं च ग्रन्थिपर्णे च तुम्बुरम् | मुरा चेत्येवमादीनि गन्धयोग्यानि पैतृके ॥ इति । कुष्टीः=गन्धद्रव्यभेदः । कुटं=कुठ इति प्रसिद्धम् । मांसी=जटामांसी । बालसुगन्धिबाला इति प्रसिद्धम् | त्वक् दारचीणीति प्रसिद्धा । नालिक=तज इति प्रसिद्धम् । मरौचिः । कर्पूरकुङ्कुमोपेतं सुगन्धिसित चन्दनम् । दैविकेऽव्यथवा पित्र्ये गन्धदानं प्रशस्यते ॥ इति । अथ वर्ज्यगन्धाः । नरसिंहे । श्राद्धेषु विनियोक्तव्या न गन्धा जीर्णदारुजाः । कल्कीभाव समासाद्य न च पर्युषिताः क्वचित् ॥ न विगन्धाश्च दातव्या भुतशेषा विशेषतः । ब्रह्मपुराणे | पूतीकां मृगनाभिं च रोचनां रक्तचन्दनम् | कालीयकं जोङ्गकं च तुतुष्कं चापि वर्जयेत् || पूतीका = सुगन्धितृणविशेषः, करञ्जो वेति हेमाद्रिः । कस्तूर्या विहि तप्रतिषिद्धत्वाद्विकल्पः | तुतुष्क=सिकम् | अथ पुष्पाणि । वायुपुराणे । पितृभ्यो यस्तु माल्यानि सुगन्धनि च दापयेत् । सदा दाता श्रिया युक्तः सोऽपि याति दिवाकरम् ॥