पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१६९

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रद्धोपकरणनिरूपणम् । यस्तु श्राद्धे द्विजाग्र्याणां पुष्पाणि प्रतिपादयेत् | सुगन्धीनि मनोज्ञानि तस्य स्वादक्षयं फलम् ॥ अतः पत्रैश्च पुष्पैश्च मञ्जरीभिरथापि वा । सुकुमारैः किशलयनवदूर्वाहुरैरपि न प्रसुनैर्विना पूजा कृता पुण्यतमा भवेत् । ब्रह्मपुराणे । शुक्ला: सुमनसः श्रेष्ठास्तथा पद्मोत्पलानि च । गन्धरूपोपपत्रानि यानि चान्यानि कृत्स्नशः ॥ नन्दिपुराणे | पुष्पजातिर्यदा सृष्टा तदा प्राकशतपत्रिका | सृष्टा तेन च मुख्या स्यात् श्राद्धकर्मणि सर्वथा ॥ मार्कण्डेयपुराणे | जात्यश्च सर्वा दातव्या मल्लिका श्वेतयूथिका | जलोद्भवानि सर्वाणि कुसुमानि च चम्पकम् ॥ जात्यो=मालत्यः । मल्लिका=मुकुरपुष्पाणि | स्मृत्यन्तरे तु 'जातीदर्शनमात्रेण निराशाः पितरो गता' इति जा. त्यो निषिद्धा अतो विकल्पः | पीतजातीविषयो निषेध इति केचित् तत्र ; जात्यः सर्वा इत्युक्तेः । जलोद्भवानि रक्तान्यपि देयानि "जल- जानि रक्तान्यपि दद्याव" इति विष्णूतेः । ब्रह्मपुराणे । शाकमारण्यकं चैव दद्यात् पुष्पाण्यमूनि वै । वै जातीचस्पकलोध्राश्च मल्लिका वाणवर्वरी ॥ चूताशोकाटरूषं च तुलसी तिलक तथा । पाटली शतपत्रं च गन्धनेपालिकामपि । कुब्जकं तगरं चैव मृगमारं च केतकीम् । यूथिकामतिशुक्ल च श्राद्धयोग्यानि भो द्विजाः ॥ कमल कुमुदं पद्मं पुण्डरीकं च यत्नतः । इन्दीवर कोकनदं कल्हारं च नियोजयेत् ॥ इति । लोध्रो=गालवः | वाण= आर्तगवः | वर्वरी =कवरीति हेमाद्रिः | तिलक.