पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१७०

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- तगरः | गन्धनेपालिका=वनमल्लिका | कुजक्म्=अजकम् | तगरो=गन्धत गरः । मृगमारः= श्रावेणिकापुष्पमिति हेमाद्रिः | अतिशुलं = माधवील तापुष्पम् । यस्तु विष्णुना सर्षपसुरसाकूष्माण्डानि वर्जयेदिति तुलस्या नि षेध उक्तः स शाकप्रायपाठाच्छाकत्वेनेत्युक्तं द्रव्यनिर्णये । अथ निषिद्धानि । वायुब्रह्माण्डपुराणयोः । जपादिसुमना भाण्डी रूपिका सकुरुण्टिका | पुष्पाणि वर्जनीयानि श्राद्धकर्मणि नित्यशः ॥ यानि गन्धाइपेतानि उग्रगन्धीनि यानि च । वर्जनीयानि पुष्पाणि भूतिमन्विच्छता सदा ॥ जपादीत्यादिशब्देन करवीरादि । सुमना=जाति । भाण्डी=मञ्जिष्ठा | ऋषिका=अर्कः । कुरुण्टिका=पीताम्लातकपुष्पम् । उग्र गन्धीन्यगन्धीनि चैत्यवृक्षोद्भवानि च । पुष्पाणि वर्जनीयानि रक्तवर्णानि यानि च ॥ जलोद्भवानि देयानि रक्तान्यपि विशेषतः ॥ इति । चैत्यवृक्षः = श्मशानवृक्षः । मात्स्ये | पद्मबिल्वार्कधरपारिभद्राटरूषकाः । न देयाः पितृकार्येषु पय आजाविकं तथा ॥ इति । अत्र पद्म = स्थलजम् | जलजस्य विहितत्वादिति हेमाद्रिः । पारि मद्रो=कस्तबको मन्दारः | विष्णुः । सितानि सुगन्धीनि कण्टाकतान्यपि दद्यात् । अनेना नैवंविधानि कण्टकिजातानि न देयानीति गम्यते । अथ धूपाः । शङ्गः । धूपार्थे गुग्गुलुं दद्यात् घृतयुक्तं मधूत्कटम् । बन्दनं च तथा दद्यात् कर्पूरं कुङ्कुम शुभम् ॥