पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१७१

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्राद्धोपकरणनिरूपणम्। ब्रह्मपुराणे | चन्दनागुरुणी चोमे तथैवोशीरपद्मकम् । तुरुष्कं गुग्गुलुं चैव घृताक्कं युगपदहेत ॥ ब्रह्मवैवर्ते=धूपं प्रक्रम्य । चन्दनागुरुणी चैव तमालोशीरपत्रकम् । वायुपुराणे | श्राद्धोपकरणनिरूपणम् । गुग्गुलवादींस्तथा धूपान् पितृभ्यो यः प्रयच्छति । संयुज्य मधुसर्पियों सोऽग्निष्टोमफलं लभेत् ॥ अथ निषिद्धधुपा. विष्णुः । जीवजं सर्वे न धूपार्थे, तैलघृते च दद्यादिति । जीवजे=नखकस्तूरिकादि । तैलघृते केवले न दद्यात्, संयुज्य मधुसर्पिभ्यांमिति पूर्वोदाहृतवायुपुराणात्, घृतं न केवलं दद्याद् दुष्टं वा तृणगुग्गुलुम् । इति मदनरत्नधृतवचनाच्च । तृणगुग्गुलु सर्जरस इति तत्रैव व्याख्या | अथ दीपाः । स्कान्दे । स्थाप्याः प्रतिद्विजं दीपा: श्वेतसूत्रजवर्तयः | गव्येण माहिषेणापि घृतेन भृतभाजनाः ॥ अथवा तिलतैलेन पूरिता विमलार्चिषः | पितॄनुद्दिश्य दातव्याः प्रत्येकं ते यथाविधि ॥ इति । तैलं=घृताभावे । घृताभाषे तु यो दीप तिलतैलप्रवर्तितम्, इति पायोक्तेः । तैलाभावे तत्रैव, अभावे तिलतैलस्य स्नेहैः प्राण्यङ्गवर्जितैरिति । दीपं दद्यादिति शेषः । स्नेहा: = एरण्डकुसुम्भातसीबी जोद्भवा न वसादयः । घृतेन दीपो दातव्यस्त्वथवा औषधीरसैः । वसामदोद्भवं दीपं प्रयत्नेन विवर्जयत् ॥ इति शङ्खोकेः । बी० मि० २१