पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१७२

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- कालिकापुराणे । दीपिकां धातुसंयुक्तां सालदारुमयमिपि । अलाभे मृन्मयीं वापि मानाभ्यामधिसस्थिताम् । यो ददाति पितृभ्यस्तु तस्य पुण्यफलं श्रृणु | यो धूपदहनं पात्रं पात्रमारार्त्तिकस्य च ॥ दद्यात् पितृभ्यः प्रयतस्तस्य स्वर्गेऽक्षया गतिः । इति । मानं = तैलधारणस्थलम् । १६२ अथाच्छादनम् । अनङ्गलग्नं यद्वस्त्रं सम्भवे (१) तु युगं शुभमिति । | संपूज्य गन्धपुष्पाद्यैर्दद्यादाच्छादनं ततः | अधोतं सदशं स्थूलमच्छिद्रममलीमसम् ॥ तस्याभावे तु देयं स्यात् सवर्णैः क्षालितं च यत् । प्रदेयं पितृकार्येषु कारुधौत न कर्हि चित् ॥ अधौतस्य दांनं मण्डराहित्ये । ब्रह्मपुराणे | पद्मपुराणे स्मृत्यन्तरे । कौशयं क्षोमकासं दुकूलमहतं तथा । आवेष्टनानि यो दद्यात् कामानाप्नोति पुष्कलान् ॥ कौशयं = कृमिकोशोत्थम् । क्षौमम्=आतसम् । अहतलक्षणमाइ- S प्रचेताः । ईषद्धौतं नवं श्वेतं सदशं यन्त्र धारितम् । अहतं तद्विजानीयात् सर्वकर्मस्वपावृतम् ॥ इति । ईषद्धोतं = स्वेनेति शेषः । तथाच वृद्धमनुः । स्वयं धौतेन कर्तव्याः क्रिया धर्म्या विपश्चिता । न निर्णेजकधौतेन नोपयुक्तेन वा क्वचित् । स्वयं ग्रहणादेव निर्णेजकनिवृत्तावपि पुनर्निर्णेजक प्रतिषेधो ऽन्ये नापि ब्राह्मणादिना शुद्धिः कार्येत्येव मर्धा[न्तरपरत्वात् ]। "तस्याभावे तु देयं स्यात् सवर्णैः क्षालितं च यत्" इति मत्स्यपुराणैकवाक्यत्वाच्च । ( १ ) तद् युग शुभमिति श्राद्धृतत्वे पाठ्ः ।