पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१७५

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्राद्धोपकरणनिरूपणम् | कृष्णं चापि प्रदातव्यमन्यत् कार्पाससम्भवात् ॥ नामापि न ग्रहीतव्यं नीलीरक्तस्य वाससः । दर्शनात कीर्तनात् भत्यिा निराशाः पितरो गताः ॥ अथ यज्ञोपवतिम् । पितॄन् सत्कृत्य वासोभिर्दद्याद्यज्ञोपवतिकम् । यज्ञोपवीतदानेन विना श्राद्धं तु निष्फलम् ॥ तस्मात् यज्ञोपवतस्य दानमावश्यकं स्मृतम् ॥ इति । इति वस्त्रम् । आदित्यपुराणे | वायुपुराणे । उपवीतं तु यो दद्यात् श्राद्धकर्मणि धर्मवित् । पावनं सर्वविप्राणां ब्रह्मदानस्य तत् फलम् ॥ इति । अत्र शूद्रकर्तृकश्राद्धे पशोपवीतस्य श्राद्धाङ्गत्वेन देयत्वावगमा- ह्वानं भवस्येवेति – हेमाद्रिः । एवं ख्याधुद्देश्यकश्राद्धेऽपि । भविष्यपुराणे - दद्याद्यशोपर्वातानि पितॄणां प्रीतये सदा । भद्धावान् धार्मिकस्तेन जायते ब्रह्मवर्चसी । हेमाद्रौ चमत्कारखण्डे । सितसूक्ष्मेण सूत्रेण रचितं मन्त्रपूर्वकम् | उपवीतं ददत् श्राद्धं मेघावानभिजायते ॥ चामीकरमयं दिव्यं पितॄणामुपवीतकम् | दत्वा चामीकर मयैर्विमानैर्दिधि दव्यिति ॥ राजतान्युपर्वातानि पितॄणां ददतः सदा । आयुः प्रज्ञा च तेजश्व यशश्चैवाभिवर्धते ॥ अत्र च यज्ञोपवीतस्य प्राधान्यावगतेः प्रधान्येन दानम् । वस्त्राभावेऽपि दातव्यमुपवीतं विजानता । पितॄणां वस्त्रदानस्य फलं तेनाप्नुतेऽखिलम् || इति ब्रह्मवैवर्ते वस्त्राभावे यज्ञोपर्वातस्मरणाच्च प्रतिनिधित्वेनापि । अथ दण्डयोगपट्टौ । विष्णुधर्मोतरे- दण्डान् आद्वेषु यो दद्यात् पितृप्रीत्यै महामनाः । कदाचित्तं न बाधन्त आपदः श्वापदोद्भवाः ।,