पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१७६

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- दण्डांश्च योगपट्टांश्च योगिभ्यो यः प्रयच्छति । योगिनामुपयुक्तानि वस्तून्यन्यानि यानि च || कामैस्तमभिवर्धन्ते पितरो योगवित्तमाः । पालाशान् वैणवान् वापि यस्तु दण्डान् यथोचितम् ॥ व्रतिभ्यो वा गृहस्थेभ्यो यतिभ्यः परितुष्टये । ददाति योगपट्टांश्च पट्टसूत्रादिनिर्मितान् || स योगिनां कुले भूत्वा योगिराजः प्रजायते । आदित्यपुराणे विशेष- बैणवान् सुहढान् दण्डान् ऋजून् सन्नतपर्वणः । पितृप्रीतिकृते दद्यान्नभय जातु विन्दति ॥ आयसेन मनिषेण मूलदेशे परिष्कृतान् । मृत्कुशानां यथाकाम खननेषु क्षमान् भृशम् ॥ केवलान् वाथ दण्डान् वा बः श्राद्धे प्रतिपादयेत् । तस्य श्रद्धां च मेधां च शौचमास्तिक्यमेव च ॥ इद्द जन्मनि चान्यत्र प्रयच्छन्ति पितामहाः ॥ इति । शालकायनः । प्रदाय वैणवीं यष्टि नूतनां सुदृढामृजुम् । लरणामनुखणग्रन्थि द्विजाय श्राद्धभोजिने ॥ विजयी जायते नित्यं न पश्यति पराजयम् । तावद्भवति कल्माषी सबै तरति कल्मषम् ॥ इति । अथ कमण्डल्वादि । अग्निपुराणे | श्राद्धे कमण्डलून् दद्यात् जलेनापूर्य यक्षतः | सर्वकामैः स सम्पूर्णश्चिरं स्वर्गेऽभिमोदते || प्रभासखण्डे । चक्रवद्धं तु यो दद्यात् श्राद्धकाले कमण्डलुम् । काञ्चनेन विमानेन किङ्किणीजालमालिना || बचते चिररात्राय सुवृष्णे मेरुमूर्धनि । वाराहपुराणे । यः काञ्चनमयं दिव्यं प्रयच्छति कमण्डलुम् । पितृभ्यः स चिरं भोगैर्मोदते काञ्चनालये ||