पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१७८

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे-

ब्रह्मपुराणे |

उपानद्युगलं यस्तु श्राद्धकर्मणि धर्मवित् । एकैकस्मै द्विजानन्याय पित्रर्थे सम्प्रयच्छति ॥ पितॄणां तत् परे लोके विमानमुपतिष्ठते । दातापि स्वर्गमाप्नोति सुयुक्तं वडवारथैः || सौरपुराणे । वीरमित्रोदयस्य श्राद्धप्रकाशे- अथोपानतपादुके । निर्माय सुदृढे दद्याददुर्गन्धेन चर्मणा । न म्यूने नातिरिक्ते च पादयोः सुसुखे मृदु || उपानही ब्राह्मणेभ्यः पितॄणां सुखहेतवे । प्रीयन्ते पितरस्तस्य प्रीता यच्छन्ति वाञ्छितम् ॥ नन्दिपुराणे | यः पादुकं प्रदद्यात्तु पितृतृप्त्यर्थमादरात् । तस्य पुण्येषु लोकेषु भवेदप्रतिघा गति ॥ अप्रतिघा=अप्रत्यूहा | हेमाद्रो चमत्कारखण्डे । धात्वादिनिर्मित दद्यात् पितृभ्यः पादुकायुगम् । यस्तस्य देवलोकेषु गतिर्वैमानिकी भवेत् ॥ गजदन्तकृते यस्तु पादुके सम्प्रयच्छति । सवै चित्राणि यानानि लभते प्रेत्य चैव हि । यः पादुके प्रयच्छेत सारदारुमये शुभे ॥ पितृभ्यः सोपि मेधावी सुखमत्यन्तमश्नुते । अथ आसनानि । ब्रह्मपुराण | आसनानि च रस्याणि पितृभ्यो यः प्रयच्छति । स आस्ते सुचिरं काल त्रिदशैरभिपूजितः ॥ देवीपुराणेः । पीठान्यतिमनोज्ञानि पितॄणां प्रददाति यः । तस्य पीठेश्वरी नित्यं वरान् यच्छति वाञ्छितान् || हेमाद्रौ चमत्कारखण्डे विशेषः, चामीकरमयं श्राद्धेष्वासनं य. प्रदापयेत् । तस्यासनं मेरुपीढ़े समीपे परमेष्ठिनः |