पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१८०

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- मोदन्ते पितरस्तस्य सुखिनः शाश्वतीः समाः । दातापि स्वर्गमासाद्य विमान दिव्यमास्थितः ॥ सेव्यते सुरनारीभिर्गीयमानश्च किन्नरैः । विष्णुधर्मोत्तरे । आन्दोलकं सास्तरणं सोपधानप्रसाधनम् । धातुजाभिः सुरम्याभिः शृङ्खलाभिश्व संयुतम् ॥ मन्तवारणशोभाढ्यं प्रथित मृदुभिः पटैः । ददाति पितृकार्येषु यो हि श्रद्धापरायणः ॥ गन्धर्वाप्सरसां लोके गायमानो निरन्तरम् । स भुते विविधान् भोगान् त्रिदशैरपि दुर्लभानू ॥ चमत्कारखण्डे । श्राद्धे शय्यां प्रयच्छेद्यः सूर्यलोके स राजते। गजदन्तमयं दिव्य श्राद्धे दत्वा तु मञ्चकम् । गत्वा चान्द्रमसं लोकं शरदामयुतं वसेत् ॥ पत्रमयैः पट्टेग्रंथितां च ददाति यः । शय्यां पितृभ्यो मेघावी देवीलांकें स गच्छतिः ॥ कर्पास सूत्रजैः पट्टेः सुदृढां यः प्रयच्छति । चन्द्रस्य भवने सोऽपि कामान् भुते यथेप्सितान् ॥ कृतां शणमयै प: सूत्रजैर्वाऽविजैरपि ॥ दत्वा जन्मान्तरे जातः स्त्रियो विन्दति सुन्दरीः | अविजैः = अविलोमकृतपट्टैः । हंसपिच्छमय तूष्णी पितृभ्यः प्रददाति यः । गन्धर्वाप्सरसां लोके मोदते स यथा सुखम् । कर्पासनिर्मितां बूल दत्वा ऋद्धि सुशोभनाम् ॥ उपधानेन संयुक्तां लक्ष्मीवान् जायते नरः । हंसपिच्छमय रम्यमुपधानं ददाति यः ॥ कीर्तिमान् जायते नित्य सुखानामपि भाजनम् । सौमं वा पट्टसूत्रं वा यो दद्यादुत्तरच्छदम् ॥ लावण्येन सदा युक्तो जायतेऽसौ जनप्रियः । प्रयच्छेदुत्तरपट सूक्ष्मकार्पास सुत्रजम् ॥ वस्याऽऽयुर्विपुलं लोके प्रयच्छति पितामहः ।