पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१८४

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- मञ्जीरमेखलादामकार्णिकाकङ्कणादयः । हारमाणिक्यवैडूर्यमुक्कागा रुत्मतादिभिः || रखैर्विरचिताः स्वच्चैरलङ्कारा मनोहराः । पितृभ्यः सम्प्रदातव्या निजवित्तानुसारतः ॥ यानानि शिविकागन्त्रीतुरङ्गादीनि यत्नतः । श्राद्धे देयानि विदुषा स्वसामर्थ्यानुसारतः ॥ अन्नानि च विचित्राणि स्वादूनि सतिलानि च । दातव्यानि यथाकाम पितृभ्यो ददता सदा ॥ एवं यः कुरुते श्राद्धं श्रद्धया धार्मिकोत्तमः । प्रक्षीणाशेषपापस्य तस्य संशुद्धचेतसः || विच्छिन्नक्लेश जालस्य मुक्तिरेवामलं फलम् । आदित्यपुराणे । पितॄन् सम्पूज्य वासाद्य हिरण्य प्रददाति यः ।- तुलादानसम पुण्यं लभते नात्र संशयः ॥ रजतस्य प्रदानेन गोसहस्रफलं लभेत् । दक्षिणार्थे पृथक् देयं स्वर्ण रूप्यमथापि वा । तेनास्य वर्द्धते लक्ष्मीरायुर्घ च विन्दति ॥ अलङ्कारविशेषदाने फलविशेषः । स्कन्दपुराण | मूर्खालङ्करणं दत्वा श्राद्धे बहुधनोचितम् । मूर्द्धाभिषिक्तां भवति पृथिव्यां नात्र संशयः ॥ कर्णभूषणदानेन निश्चितं स्याद् बहुश्रुतः । कटकालङ्कृतिदानात्तु वाग्मी स्यान्मधुरस्वरः ॥ मेघावी जायते विद्वान् दन्तैहृदयभूषणैः । जायते बाहुभूषाभिः प्रदत्ताभिर्महाबलः ॥ हस्तालङ्करणं दत्वा दाता भवति विश्रुतः | स विश्ववन्धो भवति यो दद्यात पादभूषणम् ॥ स्वर्गच्युतानि ह्येतानि फलाम्युक्तानि सुरिभिः । पितृभूषणदानस्य स्वस्वमुख्यतमं फलम् ॥ रजजैर्भूषणैर्द तैर्न मुक्किरपि दुर्लभा ।