पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१८५

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्राद्धोपकरणनिरूपणम् । ब्रह्मपुराणे । यद्यद् देयं विशिष्टं च तत्तद् देयं पितॄन् प्रति । तत्राप्यन्नं जलं वस्त्रं भूषणानि विशेषतः ॥ यानान्यपि प्रदेयानि पितॄणां परितृप्तये | यानदाने विष्णुधर्मोत्तरे विशेषः । शिविकां यः प्रयच्छेत्तु सर्वोपकरणैर्युताम् । दोलावाहनकर्मिभ्यो वृत्ति संवत्सरोचिताम् ॥ वर्षपर्याप्तमशनं कुटुम्बार्थ द्विजस्य तु । छत्रप्रदानमध्येव कर्तव्य पितृकर्माणि || यस्तु चित्रगतिं दद्यात् तुरङ्गं लक्षणान्वितम् । श्राद्धेषु तस्य देहान्ते सूर्यलोकेऽक्षयस्थितिः ॥ हेमाद्रौ चमत्कारखण्डे | दद्यान्मतमजं यस्तु युवानं चारुलक्षणम् । लोक लोकपालाना कमयुतं वसेत् ॥ तेजस्विनं चारुगतिं लक्षण्यं यस्तुरङ्गमम् । दद्यात् पितृभ्यो विजयस्तस्याप्रतिहतो भवेत् ॥ रथं ददाति यो रम्यं युग्मैयुक्तं तुरङ्गमैः । उक्षभिर्वा महाकायैस्तरुणैः सर्वलक्षणैः ॥ महाहवेषु कुत्रापि न तस्य स्यात् पराजयः । गन्त्रीं वा शकटं वापि लोहेचक्राक्षकुवराम् ॥ दत्वा पितॄणामाप्नोति घनर्द्धिमतिभूयसीम् । अथ गोमहिष्यादिदानम् । मत्स्यपुराणे । श्राद्धे गावो महिष्या बलीबर्दास्तथैव च । प्रदातव्या महोष्ट्राश्च यश्चान्यद् वस्तु शोभनम् ॥ हेमाद्रौ] बृहद्विष्णुपुराणे | तरुणीं सुखसन्दोह्यां जीवद्वत्सां पयस्विनीम् । ददाति धेनु विप्रेभ्यस्तृप्तिमुद्दिश्य पैतृकीम् || यस्तस्य सी दिविस्थस्य संर्वकामदुधा भवेत् । सुशीलां लक्षणवर्ती सवत्सां बहुदोहनाम् ॥