पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१८६

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- दत्वा पितृभ्यः कपिलां घण्टाचामरभूषणाम् । मुखवतकाद्यथैर्षाका पृथक् भवति निर्मला || एवं स सर्वपापेभ्यः पृथक् भवति निर्मलः । अयुतानां शतं साम्र ब्रह्मलोके महीयते ॥ ददाति यस्तु महिषीमव्यङ्गाङ्गीमकोपनाम् । भूरिक्षीरां गुणवतीं सापत्यां बहुसर्पिषम् ॥ क्षीरस्य सर्पिषो दध्नः परिपूर्णा दिविह्रदाः | पितॄनस्योपतिष्ठन्ति यावदाभूतसंप्लवम् ॥ हातापि स्वर्गमाप्नोति वर्षाणामयुतानि षट् । यस्तु धुर्यान् बलीबर्दान पृष्ठ भारवहानपि ॥ अविद्धनासिकान् दद्यात् अक्षुण्णवृषणांस्तथा । वृषरूपः स्वयं धर्मः तस्य साक्षात् प्रसीदति ॥ क्रमेलकान् भारवहान् बहुयोजनगामिनः । येऽलङ्कृत्य प्रयच्छति राजानस्ते न संशयः ॥ अजाश्चैवावयश्चैव महिषा भारवाहनाः | पितृभ्यः सम्प्रदातव्याः सर्वपापक्षयार्थिना ॥ गवां वर्णविशेषात् फलविशेषो नारदीये । दखा पितृभ्यः श्वेतां गां श्वेतद्वीपे महीयते । प्रदाय धेनुं कृष्णाङ्गीं यमलोकं न पश्यति ॥ पीतवर्णा तु गां दत्वा न शोचति कृताकृते । प्रदाय रोहिणीं धेनुं सर्वे तरति दुष्कृतम् ॥ रोहिणी = रक्ताम् । नीलां च सुरभिं दवा वंशच्छेदं न विन्दति । अन्येन येन येनापि धेनुं वर्णेन लक्षिताम् । दत्त्वा पितृभ्यो जयति लोके सुखमनुत्तमम् ॥ स्कन्दपुराणे । उष्ट्रीं वेगवहां यस्तु दद्यादुष्ट्रानथापि वा । तस्यै स्वर्गे प्रयातस्य गतिनैव विहन्यते ॥ पशूनजाविकांश्चैव यस्तु श्राद्धे प्रयच्छति । प्रजया पंशुभिश्चैव गृहं सुपरिपूर्यते ॥