पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१८७

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्राद्धोपकरणनिरूपणम् | ब्रह्मपुराणे अथ भूगृहपुस्तकाभयादिदानम् । यथाशक्त्या प्रदातव्या भूमिः श्राद्धे विपश्चिता । पितॄणां सम्पदे सा हि सर्वकामप्रसूर्यतः ॥ गारुडे विशेषः । गृहाणि च विचित्राणि पितृभ्यो वः प्रयच्छति । जाम्बूनदमयं दिव्यं यथाकामगमं शुभम् ॥ सर्वसम्पत्समोपेतं विमानं सोऽधिरोहति । ब्रह्माण्डपुराणे | ग्रामं वा खर्वटं चापि पितृभ्यः प्रददाति यः । शक्रस्य भवनं गत्वा यावदिन्द्रं स वर्तते । आजे ददाति यः क्षेत्रं दशलाङ्गलसम्मितम् । पञ्चलाङ्गलिकं वापि यद्वा गोचर्ममात्रकम् ॥ अलाभे द्विद्दलं वापि हलमात्रमथापि वा । लाइलैः स बलीबर्वैर्योक्त्रतोत्रादिसंयुतैः ॥ अन्यैश्चैवोपकरणैरज्जुफालादिभिर्युतम् । वाजपेवस्य यशस्य स फलं प्राप्नुयानरः ॥ काले स्वर्गात् परिभ्रष्टो भूपतिर्धार्मिको भवेत् । खर्बटोहीनो प्रामः | दशलाङ्गलसम्मितम् = दशभिर्लाङ्गलैर्यावत् ऋष्टुं शक्यते तावत् क्षेत्रमिति । एवमप्रेपि । गोचर्मलक्षणं तु । विंशरास्तेन दण्डेन त्रिंशद्दण्डानि वर्तनम् । दश तान्येव गोचर्ममानमाह प्रजापतिः ॥ इति स्मृत्यन्तरोकम् । ब्रह्मपुराण एव । शालीनामथवेक्षणां यवगोधूमयोरपि । माषमुद्गतिलानां व क्षेत्रमुत्पत्तिहेतुमत् ॥ पितॄणां यक्षतो दत्वा विष्णोः सालोक्यमाप्नुयात् । पुनर्मानुषमायातो धनधान्यसमन्वितः ॥ १७७ तेजसा यशसा युक्तो विद्वान् वाग्मी च जायते । बी० मि २३