पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१८९

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्राद्धोपकरणनिरूपणम् | पितरस्तस्य गच्छन्ति शाश्वतं पदमव्ययम् | अजनाभ्यजनादयो ब्रह्मवैवर्ते । अञ्जनाभ्यञ्जनं चैव पितृभ्यां प्रतिपादयेत् । सुक्ष्मं चाभिनवं सूक्ष्मं पिण्डानामुपरि न्यसेत् ॥ तत्र द्रव्यनियमो ब्रह्मवैवर्ते प्रभासखण्डवायुपुराणेषु । श्रेष्ठमाहुस्त्रैककुदमअनं नित्यमेव च । दीपात् कृष्णतिलोद्भूततैलजादू यन्न धारितम् । त्रिककुदि पर्वतविशेषे भवं त्रैककुद-श्रोताञ्जनमिति यावत् ॥ ब्रह्माण्ड पुराणे | पेषयित्वाञ्जनं सम्यग् वेद्या उत्तरतो बुधः । गृहीतदर्भपिजूलैत्रिभिः कुर्याद्यथाविधि ॥ एकं पवित्रं हस्ते स्यात् पितॄणां तु पृथक् पृथक् । तैलं पात्रेण दातव्यं पिण्डेभ्योऽभ्यञ्जन हि तत् ॥ ब्रह्मवैवर्ते । तिलतैलेन दातव्यं तथैवाभ्यञ्जनं बुधैः । असावङ्क्ष्व तथाभ्यश्वेत्यञ्जनादीनि दापयेत् ॥ असावेतप्त इत्येवं सूत्रं चापि नियोजयेत् । इत्येवमञ्जनं दत्वा चक्षुष्मान् जायतेनरः ॥ अभ्यज्जन प्रदानेन लभते रूपमुत्तमम् । लभेद् वस्त्राण्यनन्तानि पिण्डे सुत्रप्रदानतः ॥ वायुपुराणे | अञ्जनाभ्यञ्जनं चैव पिण्डनिर्वपणं तथा । अश्वमेधफलेनैव संमितं मन्त्रपूर्वकम् || क्रियाः सर्वाः यथोद्दिष्टाः प्रयत्नेन समाचरेत ब्रह्मपुराणे । क्षौमं सूत्रं नवं दद्याच्छणकर्षासजं तथा । पत्रोर्ण पट्टसूत्रं च कौशेय च विवर्जयेत् ॥ पत्रर्णम् =घौत कौशेयम् । १७९ वर्जयेत्तु दशाः प्राशो यद्यप्यहतवस्त्रजाः | न प्रीणन्ति तथैवाभिर्दातुश्चाप्यफलं भवेत् ॥ आपस्तन्बेन तु दशा देयेत्युक्तम् ।