पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१९०

एतत् पृष्ठम् परिष्कृतम् अस्ति

१८० वीरमित्रोदयस्य श्राद्धप्रकाशे- वाससो दशां छित्वापि निदधात, ऊर्जास्तुकां वा पूर्वे वयसि, उत्तरे स्वं लोमेति । ऊर्णास्तुका = मेषलोमानि | कात्यायनः । एतद्व इत्यपास्यति सुत्राणि प्रतिपिण्डं ऊर्णा दशा वा, वयस्यु तरे यजमानलोमानि वेति । उत्तरं वयः, पञ्चाशदुत्तरम् | "पञ्चा शत ऊर्दू उरोलोम यजमानस्य" इति शाट्यायनिवचनात् । ब्रह्मपुराणे | दद्यात् क्रमेण वासांसि दशां वां श्वेतवस्त्रजाम् ॥ इति । प्रकीर्णकदार्न प्रभासखण्डे । लोके श्रेष्ठतमं सर्वमात्मनश्चापि यत् प्रियम् । तत्तत् पितॄणां दातव्यं तदेवाक्षयमिच्छता ॥ इति । स्कन्दपुराणे | अलङ्काराम् बहुविधान काञ्चनेन विनिर्मितान् । इत्यादिपूर्वोकसर्वदानान्यनुक्रम्य एतान् दद्यात्तु यः श्राद्धे पदार्थान् भोगसाधनान् । न तस्य दुर्लभं किञ्चिदिह परत्र च ॥ इति । विष्णुधर्मोत्तरे पितृगाथाः । अपि स्यात् स कुलेऽस्माकं कश्चित् पुरुषसत्तमः । दद्यात् कृष्णाजिनं यो वः स्वर्णशृङ्गविधानतः ॥ अपि वा स्यात् कुलेऽस्माकं कश्चित् पुरुषसत्तमः । प्रस्यमानां यो दद्यात् धेनुं ब्राह्मणपुङ्गवे || बोधायनः । वापीकूपतडागानि वृक्षानाराममेव च । शालक्षुक्षेत्र केदाराः समृद्धाः पुष्पवाटिकाः ॥ भाद्धेषु दत्त्वा प्रयतः पितॄन् आत्मानमेवच | समुद्धरत्यसौ दुःखात यावदाभूतसंयुतात् || वायुपुराणे- धेनुं भाद्धेषु वो दद्यात् गृष्टिं कुम्भोपदोहनाम् । गावस्तमुपतिष्ठन्ति गवां पुष्टिश्च जायते ॥ सृष्टि =प्रथमप्रसूता गौः। अत्रोपकरणे वेतेषु यानि श्रद्धाङ्गार्चना- भूतानि तानि नामगोत्रा चुकचारणपूर्वकं पितृभ्यो देयानि गन्धादिव.