पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१९१

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्राद्धोपकरणनिरूपणम् । १८१

यानि तु गोभूहिरण्यादीनि अर्चनानुपयोगीनि तानि श्राद्धकाल एव

दानप्रोक्तप्रकारेण देयानि, तेषां उपरागादिकालान्तरवच्छ्राद्धका लस्य तत्कालत्वेन विधानाच्छ्राद्वाङ्गत्वाभावात् । अत एव फलश्रवणमण्युपपद्यते । तथा वढिपुराणे | शक्त्याथ दक्षिणा देवा श्राद्धकर्मणि शक्तितः । ग्रामक्षेत्राण्यथारामा विचित्राः पुष्पवाटिकाः ॥ बहुभौमानि रम्याणि गृहाणि शयनानि च । सुवर्णरलवासांसि रजतं भूषणानि च ॥ अनडुद्दो महिष्यश्च विविधान्यासनानि च । पादुका दासदासीच छत्रव्यजनचामरम् || लाङ्गलान् शकटान् गन्धान् गृहोपकरणानि च । येन येनोपयोगोऽस्ति विप्राणामात्मनस्तथा ॥ तत्तत् प्रदेयं श्राद्धेषु दक्षिणार्थ हितैषिणा | यथा हि गुणद् द्रव्यं तच भूरि यथा वथा ॥ जायते फलभूयस्त्वं श्राद्धकर्तुस्तथा तथा ॥ इति । ब्रह्मपुराणे - यद्यदिष्टतमं लोके यच्चास्य दयितं गृहे । दक्षिणार्थ तु तद्देयं तस्य तस्याक्षयार्थिना || मत्स्यपुराणेऽपि । सतिलं नामगोत्रेण दयाव शक्त्याथ दक्षिणाम् । गोभूहिरण्यवासांसि यानानि शयनानि च ॥ दद्याद्यदिष्टं विप्राणामात्मनः पितुरेव च । वित्तशाब्वेन रहितः पितृभ्यः प्रीतिमाचरन् ॥ इति । ब्रह्माण्डपुराणे । 4 सौवर्णरुप्यपात्राणि मनोशानि शुभानि च । हस्त्यश्वरथयानानि समृद्धानि गृहाणि च ॥ उपानत्पादकाच्छत्रचामराण्याजनानि च । यज्ञेषु दक्षिणा पुण्या सेति संचिन्तयेत् तदा ॥ या यज्ञेषु दक्षिणा सेयं दीयमानदक्षिणेति वुद्धिः कार्या ।