पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१९३

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्राद्धोपकरणनिरूपणम् । अशक्तः =स्वयं पाकारम्भं कृत्वा बान्धवैरन्वारम्भं समाप्ति कार येदियुत्तरार्द्धार्थः । पत्न्यां पाककर्तृत्वे लिङ्गं चमत्कारखण्डे । ततश्च श्रपयामास तदर्थ जनकोद्भवा । रामादेशात् स्वयं साध्वी विनयेन समन्विता । अत्र रामादेशादित्यनेनास्यानुकल्पत्वं सूचितम् ॥ अत्र विशेषो महाभारते । रजस्वला च या नारी व्यक्तिा कर्णयोस्तथा । निर्वापे नोपतिष्ठेत संग्राह्मा नान्यवंशजा ॥ निर्वापे=पाकारम्भप्रभृतिश्राद्धकर्माणि । अन्यवंशजा=मातृपितृवंशव्यतिरिक्तवंशसम्बन्धा । अत्र चौदनपाकोऽग्निमता, पितृभ्यो निर्व पामीति मन्त्रेणायुजो मुष्टोस्तण्डुलान्निरूप्य कर्तव्यः । तथा च पाद्मे । अभिमाभिर्वपत् पैत्रं ( १ ) चरु चासप्तमुष्टिभिः | पितृभ्यो निर्वपामीति सर्वे दक्षिणतो न्यसेत् ॥ इति । अत्र चरुग्रहणादोदन एवायं विधिः, न सुपादौ । अत एवात्रौदनो ऽपि अनवस्रावितान्तरोष्मपक्क एव कार्यः, चरुशब्दस्य तत्रैव प्रसिद्धेः। श्राद्धीयद्रव्यस्य च, सकृत् प्रक्षालनं कार्यम्, "सकृत् प्रक्षालितं पितृभ्यः” इति गोभिलेोक्तेः । अत्र च साग्झिकेन श्राद्धार्थ वैश्वदेवार्थे च पृथक् पृथक् पाकः कर्तव्यः । पित्रर्थे निर्वपेत् पाकं वैश्वदेवार्थमेव च वैश्वदेवं न पित्रर्थे न दार्श वैश्वदेविकम् || इति सान्निकं प्रक्रम्य लौगाक्षिवचनात् । इदं च श्राद्धात् पूर्व मध्ये वा वैश्वदेवकरणपक्षे सर्वेषां, श्राद्धोत्तरकाले तत्करणे तु ( भाद्धशे- बात् ।) एवं निरनेरपि श्राद्धशेषेणैव । श्राद्धं निर्वर्त्य विधिवद् वैश्वदेवादिकं ततः । इति पैठीनसिवचनान् | ततः = श्राद्धीयानादित्येवं सकलनिबन्धकाराः । कर्कस्तु । वैश्वदेवाशादेव सर्वदा श्राद्धं कार्यमित्याह । श्राद्धदिने च परिजनेनापि स्नात्वा शुचितया स्थेयम् ॥ ( १ ) चरुं वासममुष्टिभिरिति कमलाकरोतः पाठः ।