पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१९४

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- तथा च भविष्ये । ... .... ... .... हारीतोऽपि । कृतकर्माणः सस्त्रीबालवृद्धाः सुरभिस्नातः शुचयः शुचिवास. सः स्युरिति । सुरभिस्नात|| सुगन्धितैलादिद्रव्यस्नाताः । एतच्चाभ्युदयिकविष यमिति हेमाद्रिः । ततो निमन्त्रितानां ब्राह्मणानां पूर्वाह्न एव मञ्जुकर्तनं कारयेत् | स्नानाभ्यञ्जनं च दद्यात् । तदुक्तं भविष्ये । तैलेनोइतने स्नानं दद्यात् पूर्वाह्न एव तु । श्राद्धभुम्भ्यो नखश्मश्रुच्छेदनं चापि कारयेत् ॥ इति । तत्र विशेषो देवलस्मृतौ । ... ... ततोऽनिवृत्ते मध्याहे क्लृप्तरोमनखान् द्विजान् । अभिगम्य यथामार्ग प्रयच्छेद दन्तधावनम् ॥ तैलमुद्वर्तनं स्नानं स्नानीयं च पृथग्विधम् | पात्रैरौदुम्बरैर्दद्यात् वैश्वदेविकपूर्वकम् ॥ इति । क्लृप्तरोमन खान्=कृप्तरोमन स्नान् । अनिवृत्त इति छेदः । अत एव मार्कण्डेयः । बन्तु प्रचेतसोकम् । अहः षट्सु मुहूर्तेषु गतेषु प्रयतान् द्विजान् । प्रत्येकं प्रेषयेत् प्रेभ्यान मानायामलकोदकम् ॥ प्रेष्यप्रेषणं च स्वयं गमनाशक्तौ । अभिगस्येत्यनेन स्वस्यैव गमनप्रतीतेः । तैलदानं चानिषिद्धासु तिथिषु वेदितव्यम् । निषि द्वतैलासु तु आमलककल्कदानमिति हेमाद्रिः । तदपि च नामावा. स्यायां, "घात्रीफलैरमावास्यायां न जायात्" इति निषेधादिति स्मृ. तिचन्द्रिकाकारः । अन्ये तु निषेधस्य पुरुषार्थत्वात् श्राद्धार्थत्वे तैलदानादिकं भ वत्येवेत्माहुः । तैलमुद्वर्तनं खानं दद्यात् पूर्वाह्न पत्र तु । श्राद्धभुग्भ्यो नखश्मश्रुच्छेदनं न तु कारयेत् ॥