पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१९५

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्राद्धदिने पूर्वाह्णकृत्यम् | इति तत् इमश्रुच्छेदनं निषिद्धतिथिविषयम् । वस्तुतस्तु कर्तृविष यमिदं व्याख्येयम् । अत्र च इमथुकरणादि युगपदेव तावतो नापितानुपादाब कार्ये, न तु प्रतिब्रह्मणमावर्तनीयम् । प्रयोगविधिना तथावग मात् । अत्र च तैलोद्वर्तनादि स्नानीयदानान्त एक [ एव ] पदार्थः तथैव प्रसिद्धेः । ततः श्राद्धकर्ता कुशजलव्यतिरिक्त सर्व द्रव्यजातमुपकल्प्य, नित्यस्त्रानद्रव्याण्यादाय यथालाभं तीर्थे कर्माङ्गस्नान कुर्यात् । तथा च श्राद्धमधिकृत्य भविष्ये । कर्तुः स्नानं भवेत्तीर्ये प्रातर्मध्याह्न एव तु । एताभ्यामेव नानाभ्यां प्रातर्मध्याह्न कस्नानयोस्नन्त्रेण सिद्धिया | बाससि विशेषमाह प्रचेताः | "श्राद्धकृच्छुक्लवासाः स्यात्” इति । तिलके विशेषो वक्ष्यते । ततो मध्याहसन्ध्यान्त कृत्वा श्राद्धार्थमुदकं कुशांश्चाऽऽ हरेदिति हेमाद्रिः | अन्ये तु कुशाऽऽहरण पाकात् पूर्व कार्यम्, पाकोत्तरकरणे माना भावात्, ऊष्णमन्नं द्विजातिभ्यः श्रद्धया प्रतिपादयेत्' इति वचनो कोष्णत्वासम्पत्तेः, दक्षेण सामान्यतो द्वितीयभागे तस्योक्तेश्च । उदकाहरणे विशेषो भारत । उदकाSSहरणे चैव स्तोतव्यो वरुणप्रभुः ॥ इति । स्तोत्रे च वरुणदेवत्यो मन्त्रः स्वशाखानुसारेण ज्ञेयः । तीर्थोदकाभावे च शुद्धोदक मणिकादेर्ग्राह्यम् । “कुम्भाद्वा मणिकाद्वे” नि तस्य सर्वार्थत्वेन गोभिलेोक्ते । तेनोदकेन कि कार्यमित्यपेक्षायामाह । योगियाज्ञवल्क्यः | तेनोदकेन द्रव्याणि प्रोक्ष्याऽऽचम्य पुनर्गृहे | ततः कर्माणि कुर्वीत विहितानि च कानि चित् || ततो नृवराहपूजां कुर्यात् । तथा च विष्णुधर्मोत्तरे । श्राद्धानि प्रयतः स्नातः स्वाचान्तः सुसमाहितः । शुक्लवासाः समभ्यर्च्य नृवराहं जनार्दनम् ॥ आरभतेति शेषः । बी० मि २४