पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१९७

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्राद्धदिनेऽपराह्णकृत्यम् । सम्मार्जितोपलिप्ते तु द्वारि कुर्वीत मण्डले । उदक्प्लच उदीच्यं स्यात् दक्षिणं दक्षिणाप्लवम् ॥ गोमये विशेषमाह जावालिः । शम्भुरपि । भृगुः । अमेध्याशनशुन्यानां नीरुजां च तथा गवाम् ॥ अव्यङ्गानां च साद्यस्कं शुचि गोमयमाहरेत् । गोमयविशेषे निषेधमाह | अत्यन्तजीर्णदेहाया बन्ध्यायाश्च विशेषतः । आतया नवस्ताया न गोर्गोमयमाहरेत् ॥ मण्डलपरिमाणमाह | लौगाक्षिः । हस्तद्वयमित कार्य वैश्वदेविक मण्डलम् । तहक्षिणे चतुर्हस्तं पितॄणामङ्घ्रिशोधन ॥ संग्रहे तु परिमाणान्तरमुक्तम् । प्रादेशमात्रं देवाना मण्डलं चतुरस्रकम् । वितस्तिमात्रं पिध्ये तु मण्डलं वर्तुलं भवेत् ॥ मण्डलसमीपे च गर्तः कार्य इत्याह स एव । गर्तः पञ्चाङ्गुलो विप्रे जानुमात्रो महीभुजि ॥ प्रादेशमात्रो वैश्ये स्यात् साधिकः स्यात्तु शूद्रके ॥ इति । तिर्यगूर्द्ध प्रमाणेन स्वातव्यो दैवपित्र्ययोः | बौधायनः । चतुरस्रं त्रिकोणं च वर्तुलं चार्द्धचन्द्रकम् | कर्तव्यमानुपूर्वेण ब्राह्मणादिषु मण्डलम् ॥ अयं च प्रकारः सङ्ग्रहोक्तेन वर्तुलत्वादिना विकल्पते । मण्डलयोश्छादनमाह | व्याघ्रपादः । उत्तरेऽक्षतसयुक्तान् पूर्वाग्रान् विन्यसेत् कुशान् । दक्षिणे दक्षिणाप्रांश्च सतिलान् विन्यसेद् द्विजः ॥ अक्षतग्रहणं गन्धपुष्पाद्युपलक्षणार्थम् । “अक्षताभिः सपुष्पा. मिस्तदभ्यर्च्य” इनि मत्स्यपुराणात् । अत्र च मण्डलकरणं तत्पूज