पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१९८

एतत् पृष्ठम् परिष्कृतम् अस्ति

१८८ वीरमित्रोदयस्य श्राद्धप्रकाशे- नञ्च विधिभेदेन पृथक् पदार्थ: । पृथक् पदार्थत्वात् क्रमेणानुष्ठेयम् । एव मण्डलपूजोत्तरं ब्राह्मणपादप्रक्षालन कार्यम् । तथा च मात्स्ये | अक्षताभिः सपुष्पामिस्तदभ्यर्याऽपसव्यतः । विप्राणां क्षालयेत् पादावभिवन्द्य पुनः पुनः ॥ तथ दैवपूर्वम् | "पाद्यं चैव तथार्ध्य च दैवे आदौ प्रदापयेत् " इति स्मॄत्यन्तरात् । अत्र विशेषो ब्रह्माण्डपुराणे | इदं वः पाद्यमर्धे च चतुर्थ्यन्तं निवेदयेत् । अत्र मन्त्रो ब्रह्मनिरुतो । शत्रोदेवीति मन्त्रेण पाद्यं चैव प्रदापयेत् || भविष्ये । अक्रोधनैः पठित्वा तु दद्यात् पाद्यं ततः परम् । एतत्ते पाद्यमित्युक्त्वा दद्यात् तोयं सपुष्पकम् ॥ एतदाचमनीय वेत्याभाष्याचमनीयकम् ॥ इति । इंदं पाद्याचमनीयदानं पाद्यासनान्तरभावि मिश्नमेव, अत्रैवाग्रे पुनरभिधानात् । अत्र च पाद्यार्घाचमनीयदानानां पृथक् पदार्थत्वात् पदार्थानुसमयः कार्यः । आचमनीयं च मण्डलादुत्तरत उपविष्टेभ्यो ब्राह्मणेभ्यो दद्यात् । मण्डलादुत्तरे देशेदद्यादाचमनीकम् । इति लौगाक्षिवचनात् । ब्राह्मणैश्च तथाऽऽचान्तव्य यथाऽऽचमनोदकपाद्योदकयोर्मिंथः संसर्गो न भवेत् । बन्त्राचमनवारीणि पादप्रक्षालनोदकैः । सङ्गच्छन्ते बुधाः श्राद्धमासुरं तत प्रचक्षते ॥ इति नारदीयोकेः । अत्रावशिष्टपादप्रक्षालनोदकं तन्मण्डलोपरि आचाराशिक्षिपेत् । ततो द्विराचम्य द्विजैः सह श्राद्धभूमिमागत्य भाद्धसिद्धिरस्तु, इति पृष्ट्वा तैश्चास्तु इति उक्त आसनान्युपकल्पयेत् । तथा च ऋतुः । दर्भपाणिर्द्विराचम्य लघुवासा जितेन्द्रियः | परिश्रिते शुचौ देशे गोमयेनोपलेपिते ॥