पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१९९

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्राद्धदिनेऽपराह्णकृत्यम् । दक्षिणाप्रवणे सम्यगाचान्तान् प्रणतान् शुचीन् । आसनेषु सदर्भेषु विविक्तेषूपवेशयेत् ॥ यमोऽपि । ततः सिद्धिमिति प्रोष्य कल्पितेष्वासनेष्वपि । आसध्वमिति तान् ब्रूयादासनं संस्पृशन्नपि ॥ प्रोच्य= वाचयित्वा । अत्रिः । विप्रासनानि देयानि तिलांश्चैव कुशैः सह । पृथक् पृथक् त्वासनानि तिलतैलेन दीपिकाः ॥ तैलग्रहणं घृताधुपलक्षणार्थम् । आसनानि =कुतुपाख्य कम्बलादीनि पूर्वोकानि । देवलः । ये चात्र विश्वदेवानां विप्राः पूर्व निमन्त्रिताः । प्राङ्मुखान्यासनान्येषां द्विदर्भोपहतानि च । दक्षिणामुखयुक्तानि पितॄणामासनानि च ॥ दक्षिणाप्रकदर्भाणि प्रोक्षितानि तिलोदकैः । मुखशब्देन पीठादौ कल्पितं मुखं कम्बलादौ च दशा उच्यते । आसनानि च परस्पराससृष्टानि स्थापनीयानि "आसनेषु विविक्तेषु सदर्भेषूपेवशयेत्" इतिक्रतुवचनात् । अत्र हेतुमाह | गार्ग्यः । स्पर्शे स्पर्शे भवेत् पापमेकपकिनियोगतः । हीनवृत्तादिपकौ च युक्त तस्माद्विवेचनम् ॥ विवेचन्=पङ्किभेदः । तत् साधनमाह । बृहस्पतिः । १८६ एकपङ्क्युपविष्टा ये न स्पृशन्ति परम्परम् । भस्मना कृतमर्यादा न तेषां सङ्करो भवेत् ॥ हवं वासनदानादि देवपूर्वक कार्यम् "दैवपूर्व श्राद्ध"मिति कातीयोक्तेः । [ देवपित्र्यप्राद्धणानां दिग्विशेषाभिमुख्यप्रकारोऽपि । द्वौ देवेऽथर्वणौ विप्रौ प्राङ्मुखावुपवेशयेत् | पित्र्ये तूदङ्मुखांस्त्रींश्च ] बह्ह्चाध्वर्युसामगान् ॥ इति शातातपाः ।