पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२००

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धकाशे- अत्र विशेषः पैठीनसिनोक्तः । प्राङ्मुखान् विश्वेदेवानुपवेशयेत्, इविष्मासु आसनेषु पितॄन् दक्षिणपूर्वेणेति । दक्षिणपूर्वेण दक्षिण पूर्वाभिमुखानित्यर्थः । अथवा देवब्राह्मणापे- क्षया दक्षिणस्यां दिशीत्यर्थ । हारीतेन तु । पित्र्यब्राह्मणानां पूर्वाभिमुखतया दैविकानां चोत्तराभिमुखतयोपवेशनमुक्तम् । दक्षिणात्रेषु दर्भेमु प्राङ्मुखान् भोजयेत् | उदङ्मुखान् वैश्व देवे इति । बौधायनेनाप्युक्तम् । सदर्भों पक्लृप्तेष्वासनेषु द्वौ द्वौ दैवे, जीन् पित्र्ये, एकैकमुभयत्र वा प्राङ्मुखानुपवेशयेदुदङ्मुखान् वेति ।तदेवमत्र दिग्विशेषाभिमुख्ये पञ्च पक्षा भवन्ति । तत्र वैश्व देविका: प्राङ्मुखाः, पिझ्यास्तूदङमुखा इत्येकः | [ वैश्वदेविका. प्राङ्मुखाः, पित्र्यास्तु दक्षिणपूर्वाभिमुखा इति द्वितीयः | वैश्वदे विका उत्तराभिमुखाः, पित्र्यास्तु प्राङ्मुखा इति तृतीयः । वैश्व देविकाः प्राङ्मुखाः, पित्र्यास्तूदङ्मुखा इति चतुर्थः ।] वैश्वदेविका उदङ्मुखाः पित्र्याः प्राङ्मुखा इति पञ्चमः । अत्र स्वस्वगृह्यानुसा. रेण व्यवस्था | स्वगृह्ये विशेषानाम्नाते तु वैश्वदेविकानां प्राङ्मु. स्वत्वं पितॄणामुदङ्मुखत्वमिति । अयमेव पक्षोऽङ्गीकर्तव्यो बहुस्मृति. संमतः । अत्र देवं प्रदक्षिणोपचारेण पितॄणाम प्रदक्षिणोपचारेण का. र्यम् | "प्रदक्षिण तु देवाना पितृणामप्रदक्षिण" मिति बौधायनोफेः । तथा च कात्यायने । पिण्डपितृयज्ञवदुपचारः पित्र्ये । पित्र्ये=पितृब्राह्मणे । पिण्डपितृयज्ञवदुपचारः=पिण्डपितृयञ्चवत् क्रिया | अपसव्यम् दक्षिणाभिमुखेन कर्तव्यम्, दक्षिणसंस्थ कर्तव्यमिति वा तथा च यमः । दक्षिणसंस्था आसरन्न स्पृशेयुः परस्परम् ॥ इति । दक्षिणबाहुभागे संस्था येषां ते दक्षिणसंस्था इति विग्रहः । एतय ब्राह्मणपङ्केः पश्चिमोपक्रमप्रागपवर्गत्वे एवोपपद्यते । अत एवाह |