पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२०१

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्राद्धदिने अपराह्णकृत्यम् । छागलेयः । प्रतीच्यां समुपक्रम्य प्राच्यां निष्ठा यदा भवेत् । दक्षिणासस्थता द्वेषां पितॄणां श्राद्धकर्मणि ॥ इति । ततश्च प्रादक्षिणविवानात् दक्षिणा दिगुपक्रममुदगपवर्गे विश्वे- देवानामुपवेशनम् पश्चिमोपक्रम पूर्वदिगपवर्ग पितृणाम् । भत्र विशेषः शङ्खलिखिताभ्यामुक्तः । ब्राह्मणानुपसंगृह्योपवेशयेदासनमन्वालभ्येति । १९१ यमः । आसनं संस्पृशन् सब्येन पाणिना दक्षिणेन ब्राह्मणानुपसंगृह्य समाध्यमिति चोक्त्वोपवेशयेत् । इति । व्यासस्तु । आसतामिति तान् ब्रूयादासन संस्पृशन्नपि । उपस्तीर्णेषु चासीरन् न स्पृशेयुः परस्परम् || उपवेशने मन्त्री धर्मेणोक्तः । अन्वालभ्य ततो देवानुपवेशव ततः पितॄन् । समस्ताभिर्व्याहृतिभिरासनेषूपवेशयेत् ॥ पैतृकाणामेचोपवेशने व्याहृतय इत्यपरार्कस्मृतिचन्द्रिकाकारौ । अन्येतु- उभयेषामपि व्याहृतिभिरुग्वेशन मिच्छन्ति ॥ श्राद्धकौमुद्यां तु भविष्यपुराणे यवोदकेन संप्रोदय स्पृष्ट्वा च पाणिनाऽऽसनम् । सव्याहृतिकां गायत्री जप्त्वा तानुपवेशयेत् ॥ एवं पित्रादिविप्राणामासनान्युपकल्प्य च । तिलोदकैश्च संप्रोक्ष्य जप्त्वा तानुपवेशयेत् ॥ इत्युमयेषामा सनदानात पूर्व सभ्याहृतिजप एवोक्तः । अत्र हेमा- श्री समन्त्रकमुपवेशनप्रयोगवाक्यं ॐ भूर्भुवः स्वः, समाध्वमिति वा, अत्रास्यतामिति वा, यजमानेनोच्चारणीयम् । तदनन्तरं द्विजे रपि ॐ सुसमास्मह इति प्रतिवद्भिरुपवेष्टव्यम् । एवं पित्रादिश्रा द्वार्थान् ब्राह्मणानुपवेश्य मातामहश्राद्धार्थानप्युपवेशयेदित्युक्तम् । तत्र महाव्याहृतिसमाध्वमित्येतयोः करणमन्त्रत्वेनाऽऽम्नातयोरेका र्थयोर्विकल्प एव युक्तो न समुच्चयो वचनाभावत्। व्याहृतिगायत्र्या