पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२०२

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- जपार्थत्वे न भिन्नार्थत्वाद्युक्त एव समुच्चयः । उपविष्टब्राह्मणनि यमानाह | सुमन्तुः । पवित्रपाणयः सर्वे ते च मौनव्रतान्विता । उच्छिष्टोच्छ्रिष्टसंस्पर्श वर्जयन्तः परस्परम् ॥ इति । अत्र मौनित्व च ब्रह्मोद्यकथाव्यतिरिक्तविषयम् । तथा च यमः । ब्रह्मोद्याञ्च कथाः कुर्युः पितृणामेतीप्सितम् । इति । इति ब्राह्मणोपवेशनम् । अथ पुण्डरीकाक्षस्मरणादिकृत्यम् । तत्रासनोपविष्टब्राह्मणानामग्रतः कुशैरास्तृतायां भुवि यज्ञोपबीती प्राङ्मुख उपविश्याविशाताशुचित्वनिवृत्यर्थं पुण्डरीकाक्षस्म रणं कुर्यात् । तथा चाह क्रतु:- अपवित्रः पवित्रो वा सर्वावस्था गतोऽपि वा । यः स्मरेत् पुण्डरीकाक्ष स बाह्याभ्यन्तरः शुचिः ॥ इति । एवं पुण्डरीकाक्षस्मरण कृत्वा पृथिवीस्तुतिं कुर्यात् तथा च महाभारत निमिं प्रति अत्रिवाक्यम् | स्तोतव्या चेह पृथिवी निघापाइच्योतधारिणी । वैष्णवी काश्यपी चेति तथैवेह अयेति च ॥ , निवापे पितृदेवत्यद्रव्यत्यागे य आइच्योतः प्रक्षेसव्यं द्रव्यं त स्याधारभूता यस्मात् तस्मात् पूर्व पृथिवीस्तोतव्या वैष्णवीत्यादि पृथिवी स्तोतव्या । वैष्णवीत्यादि पृथक् नामपदैः इति करणाज्ञानात् । ततश्च ॐ वैष्णव्यै नमः | काइयध्यै नमः । क्षयायै नमः । क्षयशब्दो निवासवचनः । तथा च मन्त्रे | रेवतीरमध्वमस्मिन् योनावस्मिन्गोष्ठेऽस्मिन् क्षय इति । बराहपुराणे तु अक्षयेति पठ्यते । प्रणम्य शिरसा भूमिं निवापस्य च धारिणीम् । वैष्णवी काश्यपी चेति अक्षयेति च नामतः ॥ तत्रैव पृथिवीं प्रति वराहवाक्यम् | प्रणम्य शिरसा भूमि निवापस्थानमागतः ॥ स्तुवतानेन मन्त्रेण त्वां च भक्त्या व्यवस्थितः ।