पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२०४

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- नमस्यामि सदा तेषां ध्यायनां योगचक्षुषाम् ॥ इति । चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च । हूयते च पुनर्वाभ्यां स मे विष्णुः प्रसीद तु ॥ इति । अत्र कर्माङ्गभूतदेशकालयोः शिष्टाचारप्रामाण्येन संकीर्तनं कृत्वा ब्राह्मणाभ्यनुशाग्रहणार्थं वक्ष्यमाणेतिकर्तव्यतया पृच्छां कुर्यात् । तदुक्तं- ब्रह्माण्ड १९४ तथा । उभौ हस्तौ समौ कृत्वा जानुभ्यामन्तरे स्थितौ । सप्रश्रयचोपविष्टान् सर्वान् पृच्छेद् द्विजोत्तमान् ॥ श्राद्धं करिष्य इत्येवं पृच्छेद्विमान् समाहितः । कुरुष्वेति स तैरुको दद्यात् दर्भासनं ततः ॥ सप्रश्रयो = विनयान्वितः । सर्वान् पृच्छेदिति= सर्व प्रश्नपक्षो वैकल्पिकः । तथा च कात्यायनः । प्रश्नेषु पङ्किमूर्धन्यं पृच्छति, सर्वान् वेति | प्रश्नेष्विति बहुवचननिर्देशात् सर्वप्रश्नविषयता । पङ्किमूर्धन्यः=पङ्क यादौ उपविष्टः । अत्र पृच्छाप्रकारे विशेषो ब्रह्मपुराणे | पितॄन् पितामहान् पक्षे भोजनेन यथाक्रमम् । प्रपितामहान् सर्वांश्च तत्पितॄंश्चानुपूर्वशः ॥ भुज्यते तद्भोजनं तेनेत्यर्थः । सर्वान् = पितृपितामहप्रपितामहान् । तस्पितॄन प्रपितामहपितॄन् लेपभाज: अनुपूर्वशः = अनुक्रमेणेत्यर्थः । अपृच्छायां दोषः- कालिकाखण्डे । अपृच्छन् प्रवरेद्यस्तु नरो विप्रांश्च पार्वति । तस्य प्रियं मत्प्रमुखा नाचरन्ति दिवौकसः ॥ इति । अत्र प्रश्नानन्तरं कुरुष्वेति ब्राह्मणैरनुज्ञातो नीवीबन्धनं कुर्यात् । श्राद्धप्रकृतिभूते पिण्डपितृयज्ञे द्वितीयावनेजनानन्तरम् 'अथ नवीमुद्धृत्य नमस्करोति पितृदेवत्या वै नीविरिति' नीविविस्रंसनो- पदेशात् । कात्यायनसुत्रे च 'नीवीं विसंस्य नमो व इति अञ्जलिं क रोतीति' ततश्च विस्रंसनस्य बन्धनपूर्वकत्वात् तद्बन्धनस्याऽनानानेऽपि तद्वन्धनं कर्मादौ कर्तव्यमित्यर्थसिद्धं भवति । तथा च तत्र