पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२०५

एतत् पृष्ठम् परिष्कृतम् अस्ति

पुण्डरीकाक्षस्मरणादिकृत्यम् । १९५ कर्काचार्या आहुः । अत्र नीविविस्वंसनविधानात् कर्मारम्भे नीविबन्धः कर्तव्य इत्यर्थागम्यत इति । तथा भविष्यपुराणे | बनीयात्तु तथा नीविं न च प्रेक्षेत दुर्जनम् । स्यात् कर्ता नियतस्त्वेव यावच्छ्राद्धं समाप्यते ॥ नीविर्विपरिवर्तिको व्यत ? इति सर्वयाज्ञिकाः । सा च वामभागकक्षा यावर्तनेन सिद्ध्यति । हेमाद्रिकारास्तु | नीविनम तिलकुशान्वितानां परिहितवस्त्रोत्तराञ्चलदशानां वामकटिसलग्न वस्त्र बहिर्भागेन संवेष्ट्य गोपनम् | नीविश्रद्धालवस्तु "निहन्नि सर्वे यदमेध्यवत्" इति तिलविक रणे दर्शयिष्यमाणं मन्त्रं नीविबन्धने पठन्ति । अत्र केचिनीविबन्धनं वाजसनेयिनामेवेच्छन्ति । तेषामेव श्रुतिसूत्रयोर्विधानात् । अपरे तु भविष्यत् पुराणात् सर्वशाखिनामिस्याहुः । नीविषन्धनानन्तर श्राद्धरक्षार्थ वैश्वदेविकप्रदेशे यवान् विकिरेतू । तदुक्तं - ब्रह्मपुराणे। अक्षतैदैवतानां व रक्षां चक्रे गदाधरः | अक्षतास्तु यवौषध्यः सर्वदेवास्त्रसम्भवाः ॥ रक्षन्ति सर्वोस्त्रिदशान् रक्षार्थ निर्मिता हि ते । देवदानवदैत्येषु यक्षरक्षःसु चैव हि ॥ न कश्चिद् दुष्कृतं तेषा कर्तुं शक्तश्चराचरे । देवतानां हि रक्षार्थ नियुक्ता विष्णुना पुरा || एवं वैश्वदेविकप्रदेशे यवप्रकिरणं कृत्वा पित्र्यब्राह्मणप्रदेशे परितस्तिलान् गौरसर्षपांश्च प्रक्रिरेदिति । तदुक्तं- निगमे । "अपहता असुरा रक्षांसि वेदिषदः" इति तिलान् गौरसर्षपांच श्राद्धभूमौ घनं तिलान् विकिरोदिति । घनम् = निविडम् | ब्रह्माण्डपुराणे | रक्षार्थ पितृसत्रस्य त्रिःत्वः सर्वतो दिशम् |