पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२०८

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- तथाच्छादनदानं च करशौचार्थमम्बु च । अपसव्यं ततः कृत्वा पितॄणामप्रदक्षिणम् || द्विगुणांस्तु कुशान् दत्वा उशन्तस्त्वेतृचा पितॄन् । आवाह्य तदनुज्ञातो जपेदायन्तुनस्ततः ॥ यवार्थास्तु तिलैः कार्याः कुर्यादयदि पूर्ववत् । दत्वार्ध संस्रवास्तेषा पात्रे कृत्वा विधानतः ॥ पितृभ्यस्थानमसीति न्युब्जं पात्रं करोत्यधः । इति याज्ञवल्क्येनासनाद्याच्छादनदानान्तान् काण्डानुसमयेन दैधान् पदार्थानभिधाय 'अपसव्यं ततः कृत्वे' त्यादिना काण्डानुसमये नैव पित्र्याः पदार्था: अभिहिताः, तथापि हीत कात्यायन स्त्रावपित्र्य क्रिया समचायिन पदार्थानुसमयेनाप्यनुष्ठेयाः । १९८ प्रयोगविध्यनुमतप्रधानप्रत्यासत्यनुग्रह रूपन्यायानुगृ आसनावाहनादयः तथा च कात्यायनः । आसनेषु दर्भानास्तीर्य विश्वान् देवानावाहायेध्ये इति पृच्छति आवाहयेत्यनुज्ञातो "बिश्वदेवास आगत" इत्यनयावाह्यावकीर्य “विश्वेदेवाः शृणुतेममिति जपित्वा" पितॄनू आवाहयिष्यत इति पृच्छति । आवाहयेत्यनुज्ञात "उशन्तस्त्वे"त्यनयावाह्या वकीर्य "आयन्तु न” इति जपित्वा यक्षियवृक्षचमसेषु पवित्रान्तर्हितेष्वेकै कस्मिन्शप आलिञ्चति “शन्नोदेवी ” रिति । एकैकस्मिन्नेव तिलानावपति "तिलोसि सोमदैवत्यो गोसवो देवनिर्मितः । प्रत्नमद्भिः पृतः स्वधया पितॄइँलोकान् श्रीणाहि नः स्वाहे” ति सौवर्णराज तौदुम्बरखङ्गमणिमयानां पात्राणा मन्यतमेषु वा यानि वा विद्यन्ते पत्रपुढेषु वैकैकस्यैकैकेन ददाति, सपवित्रेषु हस्तेषु “या दिव्या आपः पयसा सम्बभूवुर्या अन्तरिक्षा उत पार्थिवीर्याः । हिरण्यवर्णा यज्ञियास्तान आपः शिवाः शं स्योनाः सुहवा भवन्तु इत्यसावेषते अर्ध इति प्रथमे पात्रे सत्रवान् सम- चनीय "पितृभ्यः स्थानमसी" ति न्युब्ज पात्रं निदधाति । अत्र गन्धपुष्पधूपदीपवाससां च प्रदानमिति। अत्र पदार्थानुसमयपक्षे पूर्व दैवब्राह्मणासने पश्चात् पित्र्यब्राह्मणासने दर्भास्तरणम् । एवमावाहनादिष्वपि द्रष्टव्यम् । अत्र यद्यपि उपवशनोत्तरं कुशास्तरणं आम्नातम् । तथापि सामर्थ्याद्यवाणूपाकवत् पूर्वमनुष्ठेयम् ।