पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२०९

एतत् पृष्ठम् परिष्कृतम् अस्ति

ब्राह्मणानामासनंदानादिकल्पम् | अत्र दर्भानिति बहुवचननिर्देशात् त्रयाणामास्तरणं कार्यम् । अत्रासनदानात् पूर्व विप्रहस्ते पाणिप्रक्षालनार्थमुदकं देयम् । तथा च-- याज्ञवरुक्यः । पाणिप्रक्षालनं दत्वा विष्टरार्थ कुशानपि । आसने इति शेषः । नतु हस्ते । तथा च-- प्रचेताः । दर्भाश्चैवासने दद्यात्रतु पाणौ कदा च न । देवपितृमनुष्याणां स्यात् त्वष्टिः शाइवती तथा ॥ तथाक्रियमाणे, हस्ते दर्भासने प्रदीयमाने, तत्र देवपितृमनुष्यप्राजापत्यतीर्थानां सद्भावात् देवादीनां ममेदममेदमिति परस्परं वष्टि = कलह स्यात् । तथा च नागरखण्डे । हस्ते तोयं परिक्षेप्यं न दर्भोंस्तु कथं च न । यो हस्ते चासनं दद्यात् तं दर्भे बुद्धिवर्जितः ॥ पितरो नासने तत्र प्रकुर्वन्ति निवेशनम् । अत्र विशेषो ब्रह्माण्डपुराणे | आसनं चासने दद्यात् वामे वा दक्षिणेऽपि वा ॥ इति । वा शब्दो व्यवस्थितविकल्पार्थ' | तेन पितृब्राह्मणस्य वामे= वामभागावस्थिते आसने । वैश्वदेविकब्राह्मणस्य दक्षिणे। तथा च तदुत्तरं तत्रैव पठ्यते । पितृकर्मणि वामे वै दैवे कर्मणि दक्षिणे । अत्र काठके विशेषः । प्रदद्यादासने दर्भानिति प्रकृत्य-- देवानां सयवा दर्भाः पितृणां च तिलैः सह ॥ इति ॥ विशेषान्तरमप्युक्तं बौधायनेन । प्रदक्षिणं तु देवानां पितॄणाम प्रदक्षिणम् । देवानां सयवा दर्भाः पितॄणां द्विगुणास्तिलैः ॥ द्विगुणा = संश्लिष्टमूलाग्राः । तथा च ब्रह्मपुराणे | लिष्टमूलाग्रदर्भास्तु सतिलान वेद तत्र वित् तानारोग्यासने तत्र ददौ सव्येन चाऽऽसनम् ॥