पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२१०

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- देवानां तु ऋजव एव दर्भाः । तथा च बृहस्पतिः । ऋजून् सभ्येन वै कृत्वा दैवे दर्भाः प्रदक्षिणम् । द्विगुणानपसव्येन दद्यात् पिइयेऽपसव्यवत् || अपसभ्यवत् = अप्रदक्षिणमित्वर्थः । नागरखण्डे व विशेषः । ऋजुभिः साक्षतैर्दर्भैः सोदकैदक्षिणादिशि | देवानामासनं दद्यात् पितॄणा त्वनुपूर्वशः || विषमै द्विगुणैदर्भैः सतिलेवामपाश्र्वगैः । अत्र पितॄणां विषमसख्यदर्भविधानात् देवानां समसंख्याका दर्भा भवन्तीति प्रतीयते । आसने प्रदत्तकुशानां स्वोकरणेऽपि म स्त्रविशेषः प्रचेतसोक्तः । देवे तु ऋजवो दर्भा प्रदातव्याः पृथक् पृथक् । धर्मोऽस्मोत्यथ मन्त्रेण गृह्णीयुस्ते तु तान् कुशान् ॥ "धर्मोऽम्मि विशिराजा प्रतिष्ठित" इति सोत्रामणोप्रकरणपाठतेन मन्त्रेण देविका ब्राह्मणा आसने प्रदत्तान् कुशान् गृहोयुः = अङ्गोकुर्युः स्वोकुयुरिति यावत्, न तु हस्तेन गृह्णीयुः तस्य प्रतिषिद्धत्वात् । केचित्तु धर्मासोति पाठमाहुस्तत्र धर्मासि सुधर्मेत्यनेन प्राचाणं- केम मन्त्रेण गृह्णीयुरिति । केचित्तु "धर्मासि सुधर्मा मेन्यस्मे नुक्कानि धारय ब्रह्म धारय क्षत्रं धारय विशं धारयेत्यन्तं मन्त्रं पठन्ति | तन्न | धर्मासि सुधर्मे कात्र वाक्यस्य परिसमाप्तत्वात् । समुच्चयस्य चान्याय्यत्वात् । विनियोगश्च धर्मासीत्युत्क्रामत्युत्तर पूर्वार्द्ध ममेन्यस्मेति खरे करोतीति पृथक् पृथक् श्रुतौ दृष्ट इत्यतोऽपि मन्त्रभेदः | अत्रासनादि दैवोपचरणमुदङ्मुखेन, पित्र्यं दक्षिणामुखेनेत्याह-- ऋतुः । उदङमुखस्तु देवानां पितॄणां दक्षिणामुखः । आसनार्थ्यादिकं दद्यात् सव्यमेव यथाविधि ॥ इति । अत्रासनदानवाक्ये पित्रादिपदे "अक्षय्यासनयोः षष्ठी" त्यादिव चमेन षष्ठी, "चतुर्थी चासने मता" इत्यनेन चतुर्थी वा। ब्राह्मणा अपि आसनादि लध्वा स्वासनं सुगन्ध इत्यादि ब्रूयुः । तथा च नागरखण्डे |