पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२१२

एतत् पृष्ठम् परिष्कृतम् अस्ति

२०२ वीरमित्रोदयस्य श्राद्धप्रकाशे- चाहये" ति पङ्किमूर्धन्येन सर्वैवांनुज्ञातो यजमानो "विश्वेदेवास आगते" त्यनयर्चावाह्यावकीर्य भूमाँ प्रदक्षिणं ब्राह्मणदक्षिणपाद- प्रभृतिशिरःपर्यन्तं प्रकीर्य, स्मृत्यन्तराद् यवान् | "विश्वेदेवाः शृणु. तेम"मति जपित्वा प्राचीनावीनी दक्षिणाभिमुखो भूत्वोदङ्मुख पितृब्राह्मणान् सर्वानकं वा पङ्गिभूर्धन्य पितॄनावाहयिष्य इति पृ च्छति, "आवाइये" ति पङ्किमूर्धन्येन सर्वैर्वानुज्ञानो यजमान "उश. न्तस्त्वं"त्यनयर्चाऽवाह्यावकीर्याऽप्रदक्षिणं तिला, "आयन्तु न” इति जपेदिति सुत्रार्थः । अत्र यद्यपि सामान्यतोऽवकिरणमुक्तं तथापि दैवे यवैः, पिsये तिलैरित शेयम् । तथा व याज्ञवरुक्य. । आवाहयेत्यनुज्ञातो विश्वेदेवास इत्यृचा | यवैरत्व व कीर्येत्यादि । भविष्यपुराणेऽपि । आवाहयेद्य वैर्देवानपसव्यं तिलैः पितॄन् । अतश्च यत् कर्केण दैवेऽपि निलैरेवावकरणं विशेषानुपदेशा दित्युक्त, तव परास्तम् । अपसब्यमित्यनेन पितृष्वप्रादक्षिण्यविधानात् प्रादक्षिण्येन देवानामिति सिद्धं भवति । तथा च यमेन दैवे सम न्त्रकं प्रादक्षिण्येन यवविकरणमुक्तम् । यवहस्तस्ततो देवान् विशाप्यावाहनं प्रति । आवाहयेदनुज्ञानो विश्वेदेवास इत्यूचा || विश्वेदवाः शृणुतेति मन्त्रं ब्रह्मावतोऽक्षतान् । ओषधय इति मन्त्रेण विकिरेत्तु प्रदक्षिणम् || प्रदक्षिणम्=पादादिमस्तकान्तमित्यर्थः । तथा च भर्तृयज्ञः । विश्वेदेवास आगत मन्त्रेणानेन पार्थिव । तेषामावाहन कार्यमक्षतैश्च शिरोऽन्ततः इति ॥ दक्षिणपादप्रभृतिशिरःपर्यन्तमित्यर्थः । अयमुक्तो यवाक्षतारो- पणप्रकारः प्रचेतसा यवस्थाने पुष्पारोपणमुदाहृत्य प्रदर्शितः, "पा. दप्रभृतिसूर्द्धान्तं देवानां पुष्पपूजन” मिति | मत्स्यपुराणे तु विकरणे. मन्त्रान्तरमुक्तम् ।