पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२१४

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- देविकब्राह्मणानेकन्वेऽपि न प्रतिब्राह्मणमावाहनावृत्तिः, सकृदावाहनेनैवाने कब्राह्मणाधिष्ठाने देवताध्याससम्भवात् । आवाहनादूर्ध्व तु प्रतिब्राह्मणं देवताराधनार्थ क्रियते यवारोपणादि सन्निपस्योपकारक तत्तत्पुरोडाशप्रथनादिवत् प्रतिब्राह्मणमावर्तनयिम्, सन्निपत्योपका रकेष्वावृति विना ब्राह्मणान्तरे कार्यासिद्धेः । “विश्वेदेवाः शृणुते”ति मन्त्रजपस्त्वावाहनांतरकाले क्रियमाणोऽपि आरादुपकारक त्वावर्तते सहजपेनैवाढष्टसिद्धेः, इति हेमाद्रिस्मृतिचन्द्रिकाकारौ । अन्ये तु । तु निरङ्गुष्टं गृहीत्वा तु विश्वान् देवान् समाइयेदित्यनेन निरङ्गुष्ठ इण विशिष्टावाहन विधानाद् गृह्यमाणविशेषत्वादावृत्तिरित्याहुः । पितॄणां तु आवाहने विशेषो मार्कण्डेयपुराणे दर्भास्तु द्विगुणान् दत्वा तेभ्योऽनुशामवाप्य च । मन्त्रपूर्वे पितॄणां तु कुर्यादावाहनं बुधः ॥ ब्रह्मपुराणे | पितॄनावाहयामीति स्वयमुक्त्वा समाहितः । आवादयस्वेति परैरुतस्त्वा वाइयेच्छुचिः | [पितरो] दिव्या=वसुरुद्रादेत्याः, मानुषाः= यजमानस्य पित्रादयः | मानवे श्राद्धकल्पे तु पितॄन् पितामहान् प्रपितामहानावाहयिष्यामीति उक्त्वा ब्राह्मणैरनुज्ञात इति उक्तम् । अत्र विशेषः श्लोकगोभिलभोक्तः । आवाहनेऽमुक गोशानस्मत्पितत्पिता महान् । प्रपितामहान् विप्रेन्द्र शर्मणोऽथ भवेत्तदा ॥ पित्रावाहनरूपे पदार्थेऽनुष्ठीयमाने तदङ्गभूतप्रयोगवाक्येऽमुकगो- श्रावस्मत्पितनमुकशमंण इत्येतत्पद्जात भवेत् - उच्चारयेदित्यर्थः । ब्रह्मपुराणे तु विशेषः । पितृनावाहयिष्येऽहं शेषान् विप्रान् वदेत्ततः । आवाहय स्वेत्युक्तस्तैः सावधाना भवन्त्विति || येषु वैश्वदेविकविप्रेष्वावाहनं कृतं तदितरे शेषा: पिज्यविप्रा इत्यर्थः । इहावाहनप्रश्नोत्तरानन्तरं तान् विप्रान् भवन्तः सावधाना भवन्त्विति यजमानो ब्रूयात् । अनेन च भवामः सावधाना इति विप्राणां प्रत्युत्तरं गम्यते ।