पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२१५

एतत् पृष्ठम् परिष्कृतम् अस्ति

आवाहनप्रकारः | अत्र विशेषो ब्रह्मपुराणे । अपसव्य ततः कृत्वा तिलानादाय सयतः । पितॄनावाहयामीति पृच्छेद्विप्रानुदङ्मुखान् ॥ आवाहयेत्यनुज्ञात उशन्तस्त्वेत्युचा पितॄन् । ततः क्षिप्त्वापसव्यं च पितॄन् ध्यायन् समाहितः ॥ जपेदायन्तु न इति मन्त्रं सम्यगदोषतः । इति । "उशन्तस्त्वेत्यृचा पितृपितामहप्रपितामहानाबाह्यानन्तरं अप्र दक्षिणं पूर्वोपात्तस्तिलान् क्षिप्त्वा पितॄन् ध्यायन् “आयन्तु न" इति मन्त्रं जपेदित्यर्थः । अपसव्यम्=अप्रदक्षिणम् | "तिलैराबाहन कुर्यादनुज्ञातोऽप्रदक्षिण" मिति प्रचेतःस्मरणात् । यत्त्वत्र तिलैरिति तृतीयान्तेन तिलपदेन तिलानामावाइनसाचमत्वमुक्तं तद् यववद्विकरणद्वारैव शेयम् । आवाहनप्रश्नश्च तिष्ठता कर्त्तव्य इत्युक्तं । --- २०६ वैजवापायनमृह्य- तिष्ठन्पितॄनावाहयिष्यामत्यिामन्त्र्येति । अमेन ब्राह्मणप्रश्नानुशाग्रहणमपि यजमानेन तिष्ठतैव कार्य, तिनामन्येत्यत्र अनुशाग्रहण रूपस्वप्रयोजनशिरस्कस्यामन्त्रणस्य अवस्थानसम्बन्धाचगमात् । अनुशाग्रहणानन्तरं- तिष्ठन्नासीनः हो वा नियोगो यत्र नेहशः । तदासीमेन कर्त्तव्यं न प्रहेण न तिष्ठता ॥ इति वचनादुपावश्यावाहनं कार्यम् । अत्र शङ्खलिखितौ ॥ उशन्तस्त्वेत्या वाह्येति । पद्ममात्स्ययोस्तु - उशन्तस्त्वा तथायन्तु ऋग्भ्यामाबाहयेत्पितॄन् । इति ऋग्द्वयस्यावाहने करणत्वमित्युक्तम्, तदेतच्छङ्ग लिखितः केन सह वैकल्पिकं बोध्यम् । अत्र विप्रजानुनि हस्तनिवेशनं पित्रा दीनां ध्यानं च ब्रह्मपुराणे दर्शितम् । तथैव जानुसस्थेन करेणैकेन तान् पितॄन् । आवाहयद्वराहस्तु तदनुध्यानपूर्वकम् ॥ करेणेत्यत्र एकैक ब्राह्मण जानूपर्युत्तानतया स्थापितेनेति शेषः समाचाराद वगन्तव्यः । एफेन=दक्षिणेनेत्यर्थः । पितॄणामप्रदक्षिणोपचा.