पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२१६

एतत् पृष्ठम् परिष्कृतम् अस्ति

२०६ वीरमित्रोदयस्य श्राद्धप्रकाशे- रत्वाविजजानुनो वामत्वमनुसन्धेयमिति हेमाद्रिः । तदनुध्यानपूर्वक मिति तेषां पितृपितामहप्रपितामहानां तत्प्रातिस्विकमानुषरूपेण च यदनु ध्यानं तत्पूर्वकमित्यर्थः । अत्र न केवलमनुध्यानपूर्वकमेचाऽऽवादनं किन्तु पित्रादिसम्बन्धनामोच्चारण पूर्वकं तत्, वक्ष्यमाणब्रह्मपुराणवच नाव पूर्वोदाहृत बेजवापायनगृह्योक्तंश्च । तत्र पितृब्राह्मणेषु तावत् पितरं ध्यायन् "आयन्तु न” इत्याद्यावाहनमावर्त्तते । एव पितामहप्रपि तामहयोर्मातामहानां च तत्तदावाहनानन्तर तदधिष्ठानभूर्ताद्वजस्य पुरस्ताच्छिरस्तः पादान्तं वा प्रदक्षिणं पूर्वोपात्तान् कुशतिलान् पिसन्ध्यायनप्रकिरयेत् । तदुक्तं ब्रह्माण्डपुराणे | आवाहयेदनुज्ञात उशन्तस्त्वत्कृत्वा पितॄन् । क्षिप्त्वापसव्य च तिलान् पितॄन् ध्यानसमाहितः ॥ जपेदायन्तु न इति मन्त्रं सम्यगशेषतः । एतत्तिलविकरणं च मन्त्रवस्कर्तव्यमित्युक्तं - ब्रह्मपुराणे | अपयन्त्वन्तरे ये वा उच्चरस्तिलबर्हिषः । वराहः पितृविप्राणामपेतोयान्त्वतरियन् || असुंय इत्यृचा चैव रक्षणं चापसव्यतः । ऋत्वा चावाहनं चक्रे पितॄणां नामगात्रतः || एतस्पितरो मनोजवा आगच्छत इतीरयन् । षर्हिषः=कुशाः। “अपेतोयन्तु" "असुय ईयु"रिति मन्त्रद्वयं पूर्व प्रदर्शितमेव । अपयन्त्वन्तरे ये वेति मन्त्रद्वयं कण्वशाखायामुक्तम् । तिलविकरणेऽवयवक्रमस्तु प्रथमं शिरसि ततः सर्व्वेशे दक्षिणाये सभ्यहस्ते दक्षिणहस्ते सव्यजानुनि दक्षिणजानुनि सभ्यपादे द क्षिणपादे चेत्याचारादनुसन्ध्येय इति हेमाद्रिः । काठके । पितॄनावाहयिष्यामीत्युक्वाऽययम्भवसु इति द्वाय तिलै. सर्वतो विकीर्य एवं पितरः आगच्छत पितरः इत्यादि मन्त्राणां जप एव नावाहने करणत्वं, जपित्वा आवाइयोदित्यावाहनस्य पृथक् निर्देशात् । आह च प्रचेताः । उशं तायन्तु नो मन्त्राञ्जपेद्वै दक्षिणामुख इति ।