पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२१७

एतत् पृष्ठम् परिष्कृतम् अस्ति

आवाहनप्रकारः । तेन कल्पसूत्रस्मृतिपुराणेतिहासोपदिष्टानां जपमन्त्राणामडष्टार्थत्वात्समुच्चय एव । आवाहने करणमन्त्राणां तु दृष्टार्थत्वाद्विकल्प एब, सति वचने तु तेषामपि समुच्चय एव । यथाह विष्णु । ततो ब्राह्मणानुज्ञातः पितॄनावाहयेदपयम्त्वसुरा इति द्वाभ्यां निर्यातुधानविसर्जनं कृत्वा एत पितरः सर्वोस्तानन आमेय त्वं त संघ इत्यावाहनं कृत्वेति । अत्रापयन्त्वित्यनयोः समुच्चिततयोर्वच. नात् यातुधानविसर्जन करणत्वम् । एत इत्यादीनां चावाहने । ते च मन्त्राः एतत्पितरो मनोजना आगच्छत पिनरो जवैयेनिखाता बेच प्रपेदिर इत्येकः । आगच्छत पितर इत्येतस्पदोपलक्षितः सर्वास्तानन· भावहविषे अत्तवे । आगच्छत पितरो मनोजवस पितरः शुन्धध्वमित्यपरः । आमेयन्तु पितरो भागधेयं विराजाहूताः सलिलान्समुद्वात् । अस्मिन्यशे सर्वकामानालम्मतामक्षीयमाणानुपजवित्वेतानित्य म्यः । अन्तर्दधे पर्वतैरेतर्मह्या पृथिव्यादिव्याप्तिरसन्ताभिरनन्तरेन्या- पितृन्दधअन्तर्दधेॠतुभिरहोसिरात्रैः ससध्य कैरर्द्धमा सैरिति तिल विकरणे मन्त्रसमुच्चयमाह । गोभिलः । २०७ उशंतस्त्वानिधीमयुशन्तः समिधीमहि । उशन्नुशत आवह पितॄन्हविषे अत्तवे ॥ एतत्पितरः सोम्यास इति “आयन्तु नः पितरः सोम्यासोऽग्नि- वाता: पथिभिर्देवयानैः । अस्मिन् यज्ञे स्वधया मदन्तोऽधिब्रुवन्तु ते वन्त्वस्मान्" । "अपहता" इति तिलान् विकीर्येति । एत पितर इति मन्त्रश्च एत पितरः सोम्यासो गम्भीरभिः पितृयानैः आयुरस्मभ्यं दघतप्रजां वरायश्च पौषरभिनः स च ध्वमिति । एवमावाहनं कृत्वा श्राद्धकर्त्ता वाग्यतो भवति कर्मसमाप्त्युत्तरकालनिमुद कोपस्पर्शना न्तम् । तथा श्राद्धमोकारो ब्राह्मणाश्च वाग्यता भवन्ति । तथा च कात्यायनः । आवाहानादिवाग्यत ओपस्पर्शनादामन्त्रिताश्चैवमिति । उपस्पर्श नं चापां तच्च पितृकर्मसमाप्त्युत्तरकालीनं= परिभाषाप्राप्तम् । तथा च त्र्यम्बकायां श्रूयते पुनरेत्य आप उपस्पृशन्ति रुद्रियेणेव वा एतद वारिषु शान्तिरापस्तद्भिः शान्त्या शमयन्तीति । ओपपस्पर्शनादि,