पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२१९

एतत् पृष्ठम् परिष्कृतम् अस्ति

अर्घसंपादनप्रकारः । द्वे द्वे शलाके देवानां पात्रे कृत्वा पयः क्षिपेत् । शनोदेव्या, यवोऽसीति यवानपि ततः क्षिपेत् ॥ पुष्पधूपादिभिः पूजां कृत्वा पात्रेषु मानवः | पितृपात्रे विशेषोऽय तिलोऽसीति तिलान् क्षिपेत् || तिस्रस्तिस्रः शलाकास्तु पितृपात्रेषु पार्वणे ॥ अत्र पवित्रकरणे मन्त्रमर्धपात्रोपरि स पवित्रनिधानमाह - प्रचेताः । २०९ पवित्रे स्थ इति मन्त्रेण पवित्रे कारयेद् बुधः । ते निघायार्धपात्रेषु शन्नोदेवत्यपः क्षिपेत् || पवित्रे स्थ इति यजुः शाखाभेदेन व्यवस्थितं, पवित्रे स्थो वैष्णवी वायुव मनसा पुनात्विति, तथा पवित्रे स्थो वैष्णब्यौ इति । अत्र च पवित्र स्थ इति द्विवचनान्तोऽपि मन्त्रः, त्रित्वयुक्ते पित्र्यपवित्रे- ऽपि प्रयोज्य एव, पाशाधिकरणन्यायादिति कर्कः । अन्ये तु बहुषु द्विवचनस्यासाधुत्वाल्ल प एव, मेष्यधिकरणन्या- येनेत्याहुः । अत्र कात्यायनादिभिर्दर्शपूर्णमासप्रकरणे समन्त्रकस्य पवित्रकर स्याम्नातत्वाच्छ्राद्धे चोपदेशातिदेशयोरभावादमन्त्रकमेव, प्रयो गारपूर्वे छेदनमिति मैथिलाः | तन्न | उदाहृतप्रचेतोवचनविरोधात् । अत्र च न ब्राह्मणभेदेन पात्रभेदः, किन्तु देवताभेदेनैव । वैश्वदेविके तु देवतैक्येऽपि पात्रद्वयं तथा च- पाममात्स्ययोरुक्तं- विश्वेदेवान् यवैः पुष्पैरभ्यर्थ्यासनपूर्वकम् । पूरयेत् पात्रयुग्मं तु स्थाप्यं दर्भपवित्रके ॥ शशोदेवीत्यपो दद्याद्यवोऽसीति यवानपि ॥ इति । तथा च "द्वे द्वे शलाके देवानां पात्रे कृत्वा पयः क्षिपेत्” इति द्व द्वे इति वीप्ला, अर्धपात्रद्वित्वे एव सार्थिका भवति । त्रीणि पात्राप्युप- कल्पयेत, वैश्वदेवे एकम्, एकैकमुभयत्र वेति मानवमैत्रायणीववचने एकमप्युक्तम् अतो विकल्पः । एकैकमुभयत्र वेति पात्रालाभावेष. यम् । एकब्राह्मणपक्षे इदमिति तु हेमाद्रिः । अर्धपात्रस्थापनं च ब्राह्मणाज्ञे न इति मदनरत्नः । एवं पात्राणि निधाय तेषु पवित्रनिधानं कृत्वा एकैकस्मिन्पात्रे "शनोदेवी" रित्यनयर्चाsप आसिश्चति । तथा च भविष्यपुराणे । बी० मि २७