पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२२०

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- शन्नोदेवीरभिष्टय इत्यूचा पूरयेज्जलैः । उदङ्मुखो यवोऽसीति देवपात्रे यवान् क्षिपेत् ॥ ॐतिलोसांति मन्त्रेण प्रत्येकं निर्वपेसिलान् । इति । अत्र प्रतिपात्रं मन्त्रावृत्तिर्जलासिञ्चने शेया करणत्वात् । आश्वलायनेन तु "शनोदेवी" रित्यनेनानु मन्त्रयेदित्युक्तं रभिष्टय इत्यनुमन्त्रितासु तिलानावपवीत्यादिना । तदा तु सकृदेव- मन्त्रः शक्यत्वात् । नागरखण्डे, शन्नोदेवी- २१० पितृणामर्धपात्रेषु तथैव च जलं क्षिपेत् । तिलोसि सोमदेवत्यो गोसवो देवनिर्मितः ॥ प्रत्नमद्भिः पृतः स्वधया पितृनिमाल्लोकान्प्रीणाहीति । पृथक् तिलांच तत्रैव पितृतीर्थेन यत्नतः ॥ इति । तथैव चेति=शनोदेवत्यनेन मन्त्रेणेत्यर्थः । मन्त्रे पाठविशेषश्च यथा गृहां व्यवस्थितो शेयः । अत्र यवतिलावापानन्तरं गन्धपुष्पप्रक्षेपः कार्य इत्युक्तं - सौरपुराणे । शन्नो देव्या जलं क्षिप्त्वा सपवित्रे तु भाजने । यथान् यवोसीति तथा गन्धं पुष्पं च निक्षिपेत् ॥ गन्धपुष्पप्रक्षेपमन्त्र उक्तः- चतुर्विंशतिमते । द्वे द्वे पवित्रे देवानां पात्रे कृत्वा पयः क्षिपेत् । शनोदेवीति वै तोयं यवोऽसीति च वै यवान् ॥ तथा, श्रीश्चतेति च वै पुष्पं गन्धद्वारेति चन्दनम् । पुष्पधूपादिभिः पूज्य देवपात्राणि मानवः | अत्रादिशब्देन दीपोऽपि संगृह्यते । गन्धायुपचारानन्तरं उत्प वनमुकं- मानवे मैत्रायणीयसूत्रे । सुमनसम्मोत्य यवान् प्रक्षिप्येति । उदकप्रक्षेपानन्तरं "यवोऽसी” त्यादिना मन्त्रेण तत्र यवान् प्रक्षि व्य "श्रीमत" इत्यनेन सुमनसः पुष्पाणि निधाय प्रोक्षणीवदुत्पवनं कृत्वा वक्ष्यमाणप्रकारेणार्घ्यदानं कुर्यादित्यर्थ इति हेमाहिः ।