पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२२१

एतत् पृष्ठम् परिष्कृतम् अस्ति

अर्घसंपादनप्रकारः । अनन्तरं वैतान्यर्धपात्राणि सावित्र्याभिमन्त्रणयानि | सावित्र्यो- दकपात्रमभिमन्त्र्येति मैत्रसूत्रात् । पाममात्स्ययोः, शत्रो देवीत्यपो दद्याद्यवोऽसीति यवानपि । गन्धपुष्पैस्तु सम्पूज्य वैश्वदेव प्रतिन्यसेत् ॥ वैश्वदेवत्राह्मणं प्रति पुरतो न्यसेत्, स्थापयेदित्यर्थः । बौधायने विशेषः । दक्षिणेनाभि स्वधापात्रं स्थापयेत् । आमागन्तु पितरो देवयानाः, तिलोलि सोमदेवत्यो गोसवो देवनिर्मितः । प्रतमद्भिः पृतः स्वधया पितृळ्लोकान्प्रीणाहि नः स्वधा नमः || इति तिलानोप्य "मधुव्वाता ऋतायते मधु क्षरन्ति सिन्धवः । मा. ध्वीनः सम्वोषधीः " मधुनतमुतोषसो मधुमत्पार्थिव ४ रजः | मधुधौरस्तुनः पिता | "मधुमान्नो वनस्पतिर्मधुमां अस्तुसूर्यः । माध्वी- र्गावो भवन्तु नः” । “सोमस्य त्विषिरास" शनोदेवीरभिष्टय आपो भवन्तु पीतये | शंयोरमिस्रवन्तु नः । एतैः स्वधां मिश्रीकृत्य निरस्तं नमुचेः शिर इति किञ्चिन्निरस्य गन्धपुष्पाक्षतैः पितृभ्यो नमः पितामहेस्यो नमः प्रपितामहेभ्यो नम इत्यर्चयित्वा दर्भे: प्रस्थापयेत् । अस्याबमर्थः । अनि दक्षिणेन अन्वाहार्यपचनस्यावसथ्यस्य वामेर्दक्षि णतः । स्वधापात्रं अर्थ्योदकधारणार्थं पात्रं स्थापयित्वा "आमागन्तु पितरो देवयाना" इत्यादिकं मन्त्रमुच्चारयेत् । तदनन्तरं तिलोसी त्यादिना मन्त्रेण तिलान् प्रक्षिप्य मधुव्वातत्यादिभिर्मन्त्रैर्मन्त्रलिङ्गाम्म. श्रुघृतोदकरूपां स्वधां मिश्रीकुर्यात् । तत्र मधुप्रकाशकत्वात् मधु. ब्वाता" इति तृचेन मधुप्रक्षेपः | त्विषिस्तेजः, तेजो वै घृतमिति घृ तप्रकाशकत्वात "सोमस्य त्विषि" रित्यनेन घृतप्रक्षेपः । अपःप्रका शकत्वात् "शत्रोदेवी" रित्यपाम् । ततो निरस्तं नमुचे: शिर” इत्य मेन तस्मादघदकात्किञ्चिदेकदेश बाहिर्निरस्य पितृभ्यो नम इत्या. दिमन्त्रत्रयेण प्रत्येकं गन्धपुष्पाक्षतं निक्षिप्य तत्र कुशत्रयं स्थापयेत् । निगमपरिशिष्टे कात्यायनेन तु आहिताग्निकर्तृके षदेवस्ये श्रद्धेच त्वार्थर्धपात्राणि सेवा दक्षिणाभिमुखोल्लिखितलेखायां स्थापनं सगादिषद्धम्बोपतानामद्भिः प्रपूरणं तत्र च मन्त्रान्तराण्युतानि | यथा । उल्लिस्य दक्षिणां लेखायां कृत्वा लौहांश्चमसांश्चतुरः सङ्क्षिल