पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२२२

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२१२ वीरमित्रोदयस्य श्राद्धप्रकाशे- पयोदधिमधुघृतमिश्रान् महाव्याहृत्यापोहिष्ठयिशन्नो देवीरित्यद्भिः प्रपूर्वेति । स्रक्=पुष्पमाला | लौहान्= ताम्रमयान् । त्रपुसीस कृष्णाय सव्यतिरिक्कैस्तजसधातुभिर्विरचितान् इति हेमाद्रिः । तांश्चतुःसंख्यकान् यथो क्तायां लेखायां समासाद्य अत्र चतुर्थस्य मातामहार्थता वक्ष्यते 'चतु चैन मातामहादीनवनेज्ये 'तिवचनात् । तांश्च स्रगादिषट्द्दव्योपेतान् कृत्वा महाव्याहृत्यादिभिर्मन्त्रैरद्भिः प्रपूरयेत् । महावषाहृतयश्चाध्ये- सुप्रसिद्धाः । आपोहिष्ठीयं आपोहिष्ठेतितृचम् | हारीतेन तु अपां निषेचने मन्त्रान्तरमपामुत्पधने चोक्तम् । उदपात्रेषु समन्यायन्तीत्यप आसिज्य सुमनश्चोत्पूयेति । समन्यायन्त्यन्याः समानपूर्व नद्यः पृणन्ति । तमुशुचिं शुचयोदविचां समपान्नपानं परितस्थुराप इति । उत्पवनं च प्रोक्षणीवदित्युक्तं प्राक् । तथ्य हस्तद्वयाङ्गुष्ठोपकनिष्ठिका भ्यां कुशपवित्रं गृहीत्वा तूष्णीमुत्पवनं कार्यम् । केचितु प्रोक्षण्युत्पवन मन्त्रेणोत्पवनं इच्छन्ति । स च सवितुर्वः प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिरित्यादिः प्रतिशा- खं भिन्नः । ब्रह्मपुराणे तु अष्टावर्धद्रव्याण्युक्तानि । एष तेऽर्ध इति प्रोक्य तेभ्यो दद्यादथाष्टधा । जलं क्षीरं दधि घृतं तिलतण्डुलसर्षपान् ॥ कुशाग्राणि च पुष्पाणि दत्वाचामेत्ततः स्वयम् ॥ इति । अष्टघेतिउपक्रमात् क्षीराद्यष्टद्रव्योपेतं जलं देयमिति प्रतीयते । इति अर्ध सम्पादनविधि । अथ अर्धदानविधिः । सत्रार्घसम्पादनोत्तरमाह- जातूकर्ण्यः । ततोऽर्वपात्रसम्पत्तिं वाचयित्वा द्विजोत्तमान् । तदप्रे चायपात्रं तु स्वाहार्थ्या इति विन्यसेत् ॥ अयमर्थः दैवार्धपात्रलत्पत्तिरस्त्विति कृताञ्जलिर्देवब्राह्मणान् पृ. छेत् । ॐ अस्तु दैवार्धपात्रसम्पत्तिरिति ब्राह्मणैः प्रतिवचने कृते सः ति आस्तीर्णदर्भसहितमर्धपात्रमुद्धत्यं "स्वाहार्थ्यां" इत्यनेन वाक्येन वैश्वदेषिक ब्राह्मणानां पुरतः स्थापयेत् इति । तदनन्तरं च वेश्वदे विकब्राह्मणहस्ते तत्पात्रोदकप्रक्षेपः कर्त्तव्यः । यथाह--