पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२२३

एतत् पृष्ठम् परिष्कृतम् अस्ति

अर्घदानप्रकारः । कात्यायनः । एकस्यैकैकेन ददाति सपवित्रेषु इस्तेषु या दिव्या आपः पयसा सम्बभूवुर्या अन्तरिक्षा उत पार्थिवीर्याः । हिरण्यवर्णा यज्ञियास्तान आपः शिवाः संस्योनाः सुहवा मवन्त्वित्यसावेषतेऽर्घ इति । अस्यायमर्थः । ब्राह्मणहस्तेषु सपवित्रेषु अर्धे ददाति या दिव्या इति मन्त्रेण, पवित्राणि च प्रकृतत्वाद् यानि अन्त र्धानार्थानि तान्येव ब्राह्मणहस्ते स्थाप्यानि आग्नेय्याशीधमुपतिष्ठते इतिवत् । न च विनियुक्त विनियोगविरोधः | कुशा दर्ज्यादयो मन्त्रा ब्राह्मणाश्च बहुश्रुताः । न ते निर्माल्यतां यान्ति विनियोज्या पुनः पुनः ॥ इति वचनेनार्यामग्नवदेव विनियुक्त विनियोगस्यादोषत्वात् । असावित्यत्र यथादेवतं नामादेशः । असावित्यपनोद इति कात्यायनेन परिभाषितत्वात् । अत्र एकदेवतासम्बन्धेन यावन्तो ब्राह्मणाः तावतां इस्तेषु तत्पात्रगतार्घोपवेशः प्रतिपाद्यः तत्र च "या दिव्या" इति मंत्रस्यावृत्तिः । मन्त्रप्रकाश्यजलावयवभेदात् । न च वेदिप्रोक्षण मन्त्रबत् क्रियाम्यावृतौ विहितत्वात् सकृदेवमन्त्र इति वाच्यम् । तत्र प्रका श्याया वेदेरभिन्नत्वेन तथा निर्णयात् । इह तु प्रकाश्यप्रकृतजलावयथभेदान्मन्त्रावृत्तिरेव युक्ता । कैचितु या दिव्या इत्यारभ्य भवन्वितीकारान्तो जपमन्त्रोऽय । अ- सावेष तेऽर्घ इति अर्धदाने करणमन्त्रः, इतिकारद्वयकरणात् । तथा च मानवमैत्रायणीयसूत्रे पवित्रे पाणौ प्रदाय हिरण्यवर्णा इत्युक्त्वा विश्वेदेवा एष वो अर्ध इति । तेन करणमन्त्रस्यैव अर्धदाने करणत्वं तत्र प्रतिब्राह्मणं या दिव्या इति अर्ध्यमन्त्रोऽप्यावर्त्तत इत्याहुः । अपरे तु या दिव्या इति मन्त्रस्य जपार्थत्वेऽपि प्रत्यर्धप्रदानमावृतिमाहुः | वक्ष्यमाणब्रह्मपुराणवचनात् । अत्र “गन्धपुष्पैश्च सम्पूज्ये" त्यर्धपात्रपूजनमाभधाय पुनरुक्तं पाद्यमत्स्ययोः । गन्धपुष्पैरलङ्कृत्य या दिव्येत्यर्धमुत्सृजेत् । इति । इदं च ब्राह्म णपूजनम्। तच्च अर्धपात्र स्थितपवित्रप्रदानानन्तरं सविशेषधर्मकं कर्त्तव्यमित्याह- गार्ग्यः । दत्वा हस्ते पवित्र च पूजाकृत्वा च पादतः ।