पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२२४

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- या दिव्या इति मन्त्रेण हस्तेष्वर्घं विनिक्षिपेत् ॥ इति । पादतः पादप्रभृति मूर्द्धान्तम् । तथा च - प्रचेताः । २१४ पादप्रभृतिमूर्द्धान्तं देवानां पुष्पपूजनम् । तथा पूर्व दक्षिणपादे ततः सव्यपादे, दक्षिणजानुनि सव्यजानुनि दक्षिणकरे सव्यकरे दक्षिणांशे सब्यांशे शिरसीत्येव क्रमेण, "औ वश्चश्च

इति मन्त्रेण विकरेतु प्रदक्षिणमिति" दैवे प्रादक्षिण्यदर्शनात् । इति दैवार्षदानम् ।

पितॄणां तु विशेषमाह । जातूकर्ण्यः । ततोऽर्धपात्रसम्पतिं वाचयित्वा द्विजोत्तमान् । तद चार्धपात्राणि स्वधार्थ्या इति विन्यसेत् ॥ अर्धपात्रे अर्धद्रव्यनिधानानन्तर “ॐपित्र्यर्धपात्राणां सम्पत्तिरस्स्विति" कृताञ्जलिः पितृब्राह्मणान पृच्छेत् त्रिः । अस्तु पित्रर्धा-पात्राणां सम्पत्तिरिति तैः प्रत्युक्ते तेष्वधोनिहितदर्भैः सह पाणिभ्यां एकैकं पात्रमुद्धृत्य ॐवधार्थ्या इति मन्त्रेण पित्रादिब्राह्मणानां पुरतो यथाक्रमं दक्षिणाप्रतया स्थापयेदित्यर्थः । ततो वश्यमाणब्रह्मपुराणवचनाद् ब्राह्मणहस्ते प्रथममपः प्रदायार्धपात्रस्थितं पवित्रं च दक्षिणानं दत्वा ब्राह्मणमभ्ययर्धे दद्यात् । तदाह गार्ग्य: । हस्ते प्रादेशमात्रं तु त्रिवृहत्वा पवित्रकम् । अभ्यर्थ पूर्वतोऽर्षे वै दद्यात्त पितृदिङ्मुखः || वै त्रिक्त = त्रिशलाकम् । पूर्वतो =ऽर्घदानात्पूर्वम् । अत्राचंनं गन्धपुष्पाशतैः कार्ये । तदुकं - वराहपुराणे । बन्धपुष्पार्चनं कृत्वा दद्याद् हस्ते तिलोदकम् । अत्र विशेष:- कालिकापुराणे । अभ्यर्ध्य विधिवद्भक्त्या सृष्टिन्यायेन मन्त्रवित | भये दद्यात्ततः पात्रैर्ब्रह्मवृक्षदलोद्भवैः ॥ सृष्टिन्यायेन शिरस्त आरभ्येत्यर्थः । शिरो हि प्रथमं जायमानस्य जायत इति शतपथश्रुतेः ।