पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२२५

एतत् पृष्ठम् परिष्कृतम् अस्ति

अर्घदानप्रकारः । गार्ग्यश्लोकगौतमवचनयोः "शिरस्तः पादतोऽवापि सम्यगम्यर्चयेत्तत" इति विकल्पाभिधानं तद्वैवपित्र्यव्यवस्थया शेयम् । तथा च प्रचेताः पादप्रभृतिमूर्द्धान्तं देवानां पुष्पपूजनम् । शिरःप्रभृतिपादान्तं नमो व इति पैतृके ॥ नमो व इति माध्यन्दिन शाखीयस्तावत् "नमो वः पितरो रसाय नमो वः पितरः शोषाय नमो वः पितरो जीवाय नमो वः पितरो स्व घायै नमो वः पितरो घोराय नमो वः पितरो मन्यवे नमो वः पितरः पितरो नमो व” इति । शास्त्रान्तरीयोऽध्यमे दर्शयिष्यते । पूजाक्रमचस्कन्दपुराणे | शीर्षाणामादितः स्कन्धपाणिजानुपदद्वये | सतिलैर्गन्धकुसुमैरर्चयीत पितृद्विजान् || अत्र विशेषः प्रचेतसोक्त: "पितॄन् ध्यायन् ब्राह्मणेष्वपसभ्यं निनयेदिति । ब्राह्मणशरीरेषु पितॄन् ध्यायन्नित्यर्थः । शाङ्कायनगृहये च | २१७ पैतृके याम्यवकत्रेण पितॄणां परितुष्टये | या दिव्या इति मन्त्रेण हस्तेष्वर्षे प्रदापयेत् ॥ याम्यवक्त्रेण दक्षिणाभिमुखेनेत्यर्थः । असावेषतेऽर्ध इति उक्तं । असाविति पात्रादिवाचकस्य विशेषनाम्नः परामर्शः । तथा च पाद्ममात्स्ययोः । एवं पात्राणि सङ्कल्प्य यथालाभं विमत्सरः । या दिव्येति पितृनामगोत्रैद करे न्यसेत् || इति पित्रादीनां नामगोत्रं चोच्चार्य सपवित्रब्राह्यण करेऽयै निनयेदित्यर्थः । अत्र करे इत्येकवचन निर्देशादे कस्मिन्नेव दक्षिणकरेऽधं दानं कर्त्तव्यमिति सिद्धं भवति । बैजवापायनेन तु अञ्जलावर्धदानं कर्तव्यमित्युक्तम् । पात्राण्यनुदिश्यति पितः ! एतत्तेऽध्ये पितामहैतसेयम, प्रपितामह एतत्तेऽर्ध्यमिति ब्राह्मणाञ्जलिषु निनयेत् इति । पात्राणीति =पात्रस्थानि उदकानीत्यर्थः । वसिष्ठः । अप्रदक्षिण मेतेषामेकैकं तु पितृक्रमात् । संबोध्य नामगोत्राभ्यामेष तेऽर्घ इतीरयन् ॥