पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२२६

एतत् पृष्ठम् परिष्कृतम् अस्ति

२१६ वीरमित्रोदयस्य श्राद्धप्रकाशे- इति । अत्र नामगोत्रग्रहणं सम्बन्धस्याप्युपलक्षणम् । तथा च व्यासः | गोत्रसम्बन्धनामानि पितृणामनुकीर्त्तयन् ! एकैकस्य तु विप्रस्य अर्धपात्रं विनिक्षिपेत् ॥ इति । एकैकस्य तु विप्रस्येति एकदेवतासम्बन्धेन यावन्तो ब्राह्मणा सम्पादिताः तावतां हस्तेषु तत्पात्रस्थमर्घोदकं प्रतिब्राह्मणं पृथक् पृथक् । दद्यात् मन्त्रं जपंश्चाप्ययादिव्या आप इत्यपि । अमुकामुकगोत्रैतत्तुभ्यमस्तु तिलोदकम् ॥ इति वामहस्तगृहतिपात्रस्थमुक दक्षिणहस्तपितृतीर्येन विप्र- हस्ते निनयेदित्यर्थः । अत्र कात्यायनकृते निगमपरिशिष्टे विशेषः । चमसपुरणानन्तरं तेभ्यो व्यतिषङ्गमवदानवद्धुत्वा हस्तेष्व पो निषिञ्चत्यमुष्यात नामग्राहं चतुर्थेन मातामहादीनामवनेज्येति । प्रपितामहाघपात्रस्य अस्थायमर्थः । ये पूर्व चत्वारश्चमला अर्घद्रव्येण पूरितास्तेषां मध्ये ये आद्यास्त्रयश्चमसाः पितृपितामहप्रपितामहानामर्थे परिक ल्पितास्तेभ्यस्त्रिभ्यश्चमसभ्य इत्यर्थः । व्यतिषङ्गमत्रदानवद्धुत्वेति । पितु रर्घदाने कर्त्तव्ये पित्रर्धपात्रस्य पितामहप्रपितामहपात्रयोश्चार्घोदक स्यैकैकदेशमे कस्मिन्पात्रे गृहीत्वा पित्रेऽर्घदानं कार्यम् । ततः पितामहार्घपात्रस्य प्रपितामहपित्रर्घपात्रयोश्चार्घोद कस्यैकै क देशमेकस्मि म्पात्रे गृहीत्वा पितामहायार्धे दद्यात् । ततः पितृपितामहाघंपात्रयोश्चार्घोदकाना मे कैकस्मिन् पात्रे गृहीत्वा प्रपितामहायार्धे दद्यात् इत्यर्थः । अयं च प्रकारो महापितृयश्चे दर्शितः । तत्र पित्रर्थोपक्लृप्त/घंस्यैव पितृसम्प्रदानके दाने प्राधान्यं इतरार्थों दकयोस्तु तत्र तत्सस्कारकत्वेन गुणभूतता तयोस्तदर्थमनुकालेपत तत्वात् । एव पितामहप्रपितामहर्धियोरपि द्रष्टव्यम् । एवं च सति- संस्कार का घदकग्रहणविस्मरणेऽघांवृत्तिनं भवति प्रधानार्घोदकवि स्मरणे तु आवृत्तिर्भवत्येव । अमुध्येति= षष्ठयन्त मेकैकस्य पित्रादेर्नाम गृहीत्वा तत्तद् ब्राह्मणहस्तेषु निषिश्चेत् । चतुर्थेनकेनैव पात्रेण मा तामहादिभ्यस्त्रिभ्योऽर्घदानं कुर्यात् । इद च न नियतम्, अन्यथा "षडन् दापयेत् तत्रे "त्यस्यानुपपत्तेः । तेन मातामहानामर्धत्रयमपि भवत्येव । पात्राणामनुमन्त्रण मन्त्र | नर्घदाने मन्त्रान्तरम् | या दिव्या