पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२२७

एतत् पृष्ठम् परिष्कृतम् अस्ति

अर्घदानप्रकारः । इत्यस्य ब्राह्मणहस्तगलितोदकानुमन्त्रणे विनियोगं चाह । आश्वलायनः । पितरिदन्तेऽयें, पितामहेदं तेऽर्ध्य, प्रपितामहेदं तेऽर्ध्यमित्य नुपूर्वेताः प्रतिग्राहयिष्यम् सकृत्स्वधार्थ्या इति प्रसृष्टास्वनुमन्त्रितासु "बा दिव्या आपः पयला सम्बभूवुर्या अन्तरिक्षा उत पार्थिवीर्याः । हिरण्यवर्णा यज्ञियास्तान आपः शिवाः शंस्योनाः सुहवा भवन्तु" इति। ता=पात्रस्था आपः, ब्राह्मणान्प्रतिग्राहयिष्यन् सकृत्स्वधार्थ्या इति मन्त्रं जपेत् । पितरिदं तेऽध्यमित्यादिभिः प्रतिमाहयेद् दद्यात् । तासु प्रसृष्टासु ब्राह्मणहस्तेभ्यो भूमिं गतासु या दिव्या इत्यनयर्चानुमन्त्रयेत् । अनुमन्त्रण च सर्वेषां सकृदेव कार्ये, शक्यत्वादित्युक्तं प्राक् | यमेन तु अर्धदानं तूष्णीं कर्त्तव्यमित्युक्तं "ततः सलिलमानीय तृष्णीं दद्यात् पवित्रवत" इति । पवित्रादिसकलार्धद्रव्यसहित मित्यर्थः । यत्वाइवला वनगृह्यकारिकायां स्वधार्थ्या इत्यर्थ्यास्तानुपवीती निवेदवेदिति पित्रर्धदाने उपवीतमुक्तं, तत् "तिलाम्बुनानापसव्यं दद्यादर्थ्यादिकं द्विज" इति वराहपुराणविरोधा निर्मूलम् । समूलत्वे वा माश्वलायनशाखिपरम् । इत्यर्घदानम् । अथ संवग्रहणम् । २१७ तत्र कात्यायनः, प्रथमे पात्रे संस्रवान् समवनीय पितृभ्यः स्थानमसीति न्युजं पात्रं करोतीति । प्रथमे पात्रे न वैश्वदेविके । तथा च प्रचेताः, प्रथमे पितृपात्रे तु सर्वान् सम्भृतसंस्रवान् | पितृभ्यः स्थानमित्युक्त्वा कुर्याद् भूमावधोमुखम् ॥ अत्र सर्वान् इति सर्वशब्देन पितृपात्रगता एव संस्रवा गृह्यन्ते न वैश्वदेविकपात्रस्था अपीति । तथा च याज्ञवल्क्येन काण्डानुसमयेन वैश्वदेविकमर्थ्याधचैनं विघाय पश्चात्पैत्र्यमर्घदानमुक्त्वा "दत्वायें संस्रवांस्तेषां पात्रे कृत्वा विधानतः । पितृभ्यः स्थानमसीति न्युब्जं पात्रं करोत्यघ" इति तेषामित्यनेन सर्वनाम्ना पितामहपात्रस्थसंस्रवा णामेवोकत्वात् । अव इते भूमौ पूर्वलिखितप्रचेतसो वचनात् | संस्रवा:= पात्रसंलझा आपः, ब्राह्मणहस्ताङ्गुलिविवरनिःसृतमघदकं वा । अत्र केचित् । बी० मि २८