पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२२९

एतत् पृष्ठम् परिष्कृतम् अस्ति

अर्घदानप्रकारः । सनिहितत्वाच्च तस्यैत्र वामगार्श्व इति श्राद्धविवेकः । या दक्षिणा सा प्राची या पूर्वा सोत्तरेति पिज्यामिष्टिमुपक्रम्य ब्राह्मणश्रुतेरुत्तराप्राचीदिगिति गदाधरः | वैश्वदेषिकाद्वजपङ्केरुत्तर एवेति हेमादिः | नागरखण्डे च- अधोमुखं तु तत्पात्रं विजने स्थापयेत्ततः । तदिति = यस्मिन्पितृपात्रे संस्रवाः संगृहीताः । विजने= श्राद्धीयद्- व्यानयनापनयनपरिवेषणादि कर्तृजनसंवरणदोषरहिते । अत्र प्रवे तसा विशेष उक्तः । अर्धसंस्रवपात्रं तु शुन्धन्तामिति संस्पृशेत् । पितृभ्यः स्थानमसीति न्युन्ज कुर्यात् पवित्राणि आदाय तैः प वित्रैः सहार्धपात्रं न्युन्ज कुर्यात् । बैजवापगृह्ये तु अर्धे दत्वा अनन्तरमेव शेषस्य कुशेषु निनयनं उक्तम् । पितृभ्योऽक्षय्यमस्त्यिति शेषं दर्भेष्वव जयतीत्युक्त्वा पितामहादिषु अर्घदानस्योकत्वात् । दर्भेषु इति=येषु दर्भेषु अर्धपात्राणि स्थापितानि तेष्वित्यर्थः । तदनन्तरं च तानि पात्राणि तथैव स्थापयेत् । तथा च मैत्रायणीये शिष्टम् । वर्हिषि मिनयेदभ्युक्ष्य प्रत्यासादयेदिति । यत्र पूर्वमर्धदानार्थमासादितानि अर्धे दत्वा तत्रैव पुनरासाद- येत्, प्रत्यासादनशब्दात् । अत्रिणा तु संस्रवाणां प्रथमे पात्रे संग्रहं स्त[कृ] त्वा स्वधावाचनात्पूर्वकालं तेषां प्रतिपत्तिरुता । अपसव्यं ततः कृत्वा पिण्डपाइवें समाहितः । क्षिप्त्वा दर्भपवित्राणि मोचयेत्संस्रवांस्ततः ॥ इदं च संवधारणं पात्रस्योतानस्थापने एवोपपद्यते न न्युब्जी- करणे । अतोऽनेनार्थादुत्तानस्यैव संस्रवपात्रस्य स्थापनमुक्तं भवति । अस्मिम्पक्षे संज्ञवाघारीकृतस्य पितृपात्रस्य पितामहपात्रेण न्युब्जेनोत्तानेन वा पिघानं कर्त्तव्यं तदुपरि प्रपितामहपात्रम् | तथा च कात्यायनः | पैतृक प्रथमं पात्रं तस्मिन् पैतामहं न्यसेत् | प्रपैतामहं ततोन्यस्य नोडरेश च चालयेत् ॥ इति । अत्र पुत्रकामस्य विशेष उक्तो वृद्धशातातपेन ।