पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२३१

एतत् पृष्ठम् परिष्कृतम् अस्ति

गन्धादिदानप्रकार: | अत्राहापस्तम्बः । नोत्प्रथमं पात्रं पितॄणामर्धपातितम् । आवृतास्तत्र तिष्ठन्ति यावद्विप्रविसर्जनम् ॥ इति । अत्र यावद्विप्रविसर्जन मिति स्वगृह्यसूत्रोकपात्रोत्तानकरणकालो- पलक्षणार्थम् । उद्धरणे दोष आखलायनगृहये । उद्धरेद्यदि तत्पात्रं ब्राह्मणो शानदुर्बलः । अभोज्यं तद्भवेच्छ्राद्धं क्रुद्धे पितृगणे गते । उशनसापि उद्घाटने दोष उक्त । उत्तानं विवृतं वापि पितृपात्रं यदा भवेत् ॥ अभोज्यं तद्भवेदशं क्रुद्धैः पितृगणैगतैः । जिवृत्तम्=उद्घाटितम् । तथा । पात्रं दृष्ट्वा वजन्त्याशु पितरः प्रशयन्ति च । उद्धृतमिति सम्बन्धः । अथ गन्धादिदानम् | वैजवापगृह्ये, तस्योपरि कुशान्दत्वा प्रदद्यादेवपूर्वकम् । गन्धपुष्पाणि धूपं च दीपं वस्त्रोपवीतके || तस्य =म्युब्जीकृतस्य पितृपात्रस्योपरि कुशान्कृत्वा गन्धपुष्पादीनि दत्वा अनन्तरं वैश्वदेविकब्राह्मणकरे गन्धादि दद्यात् । विष्णुना त्वलङ्करणमप्युक्तम् । निवेद्य चानुलेपनवस्त्रपुष्पालङ्कारधूपैः शक्त्या विप्रान् समभ्यर्येति । विष्णुधर्मोत्तरे - निवेद्य विप्रेषु ततः पाद्याय प्रयतः क्रमात् । गन्धैः पुष्पैश्च धूपैश्च वस्त्रैश्चाऽऽप्यविभूषणैः ॥ अर्चयेद्राह्मणान् शक्त्या श्रद्दधानः समाहितः । आदौ समर्चयेद्विप्रान्वैश्वदेव निषेशितान् ॥ निवेशिताञ्च पित्रर्थे ततः पश्चात् समर्चयेत् ॥ इति । कौशिक सूत्रे तु अञ्जनादर्शयोरपि प्रदानमुक्तम् । गन्धमाल्यधूपाजनादर्श प्रदीपस्याहरणमिति ।