पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२३२

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- अत्राहरणस्य दृष्टार्थत्वाद् ब्राह्मणेभ्यस्त द्वेय मित्युक्तं भवति । एतद्गन्धादिदानं च देवतोदेशेनैव तदधिष्ठानभूतद्विजकरे कर्त्तव्यम् । न तु द्विजसम्प्रदानकमित्युक्तं सम्प्रदाननिर्णये । याज्ञवल्क्येन तु गन्धादिदानस्योदकपूर्वकत्वमुक्तम् । २२२ दत्वोदकं गन्धमाल्यं धूपदानं सदीपकम् । गौतमेन तु विध्युपदिष्टानां सर्वदानानामुदकपूर्वकत्वमुक्तम् । अन्नभिक्षादानमप्पूर्वम् । ददातिषु चैवधर्म्येष्विति । तथा सर्वाण्युदकपूर्वाणि दानानि विहारवर्जमिति । अत्र विशेषो- ब्रह्मपुराणे-- - श्वेतचन्दन कर्पूरकुङ्कुमानि शुभानि तु । विलेपनार्थ दद्यात्तु यश्चान्यात्पतृबल्लभम् । इति । अत्र मन्त्रं विधिविशेषं चाह - व्यासः, विपवित्रकरो गन्धैर्गन्धद्वारेति पूजयेत् । गन्धद्वारेति मन्त्रेण विप्रे गन्धान्प्रदापयेत् । र्गन्धौवंगत पवित्रकरः श्राद्धकर्ता विप्रान् पूजयेत् ललाटगलवक्षःकुक्षिकक्षाद्यङ्गेषु विलिम्पेदित्यर्थः । अत्र विपवित्रकर विधानं लेपनं कुर्वतः श्राद्धकर्त्तुरेव, न पुनः करगृहीतगन्धैः स्वाङ्गविलेपन कुर्वतां ब्राह्मणानामपि । अत एव वृद्धशातातपेन । पवित्रं तु करे कृत्वा यः समालभते द्विजान् । राक्षसानां भवेच्छ्राद्धं निराशाः पितरो गताः ॥ इति । श्राद्धकर्त्तरि च विलेपनकारिणि सपवित्रकरे दोषोऽभिहितः । समालम्भनम् = विलेपनम् । केचित्त ब्राह्मणा अपि स्वागविलेपनं कुर्वाणाः पवित्राणि विन्य- से युरित्याहुः । अत्र विशेषान्तरं देवलस्मृतिभविष्यत्पुराणयोः । यज्ञोपवीतं विप्राणां स्कन्धात्रैवावतारयेत् । गन्धादिपूजा सिद्ध्यर्थं देवे पित्र्ये च कर्मणि ॥ इति । यजमानो नावतारयेदित्यर्थः । शातातपोऽपि, कट्यां त्रिपुष्करं कृत्वा गन्धैर्यस्तु विलिम्पति । पित्यशे नवे छिद्रं निराशैः पितृभिर्गतैः ॥ इति ।