पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२३३

एतत् पृष्ठम् परिष्कृतम् अस्ति

गन्धादिदानप्रकार: । २२३ त्रिपुस्करम् =उपवीतम् | छिद्र=विवरं विध्वंसनमित्यर्थः । त्रिपुष्करग्रहणमुत्तरीयस्याप्युपलक्षकं, तदवतारणे येकवस्त्रता स्यात् सा च प्रतिषिद्धा | सध्यादंसात् परिभ्रष्टमम्बरं यस्तु धारयेत् | एकवस्त्रं तु तं विद्याइवे पित्र्ये च वर्जयेत् । इति वचनेन । तथाशङ्खनापि दोष उक्तः । उपवीतं कटौ कृत्वा कुर्याद्वात्रानुलेपनम् | एकवासाश्च योऽश्नीयानिराशाः पितरो गताः ॥ इति । विलेपनं चोर्ध्वपुण्डाकारं कार्ये न तु वर्त्तुलादिपुण्ड्राकारमिति हेमाद्रिः । माल्यधारणप्रदेशस्तु वृद्धमनुनोक्तः । उपवतित्वमुत्सृज्य कारयेन्नानुलेपनम् । न नियुक्तः शिखावजै माल्यं शिरसि धारयेत् । इति । नियुक्तः = श्राद्धे निमन्त्रितः । अत्र पुष्पदाने मन्त्र उक्तो विष्णुना | "पुष्पवतीरिति” पुष्पमिति | दद्यादित्यनन्तरपूर्ववाक्यादनुषज्यते । पुष्पवतीरिति मन्त्रादिप्रतीकोपात्तो मन्त्रः कस्मिन्नपि वेदे न लभ्यते तेन पुष्पवतीपदं यस्मिन्मन्त्रमध्ये वर्त्तते स मन्त्रः पुष्पवतीति प्रती- कोपा तो शेयः । स च "या औषधयः प्रतिगृहीत पुष्पवती सुपिप्पलाः । अयं वो गर्भ ऋत्वियः प्रत्न संघस्थमासदव" इति । धूपप्रदाने मन्त्र उक्तो व्यासेन धूरसीत्युक्त्वेति धूपं दद्यादित्यर्थः । यद्यपीदं यजु. दर्शपूर्णमासयोर्लिङ्गेनानोधुरभिमर्शने विनियुक्तं, तथापि विलङ्गक- मपि स्मातेन वचनेन धूपदानेऽपि विनियुक्तम् । ऐन्द्रया गाईपत्यमु पतिष्ठत इतिषत् | ब्रह्माण्डपुराणे तु मन्त्रान्तरमुकम् । बनस्पतिरसो दिव्यो गन्धात्यः सुमनो हरः । (१) आहारः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥ इति । धूपश्च ब्राह्मणसान्निध्ये व्यजनादिवातेन प्रेरणीयो न हस्तवातन । तथा च शातातप, इस्तवाताहतं धूपं ये पिबन्ति द्विजोत्तमाः । वृथा भवति तच्छ्राद्धं तस्मात्तं परिवर्जयेत् ॥ इति । धूपदानानन्तरं यथोक्तघृततैलवर्यादिना प्रवर्तितदीपो देयः । ( १ ) आघ्नेयः ।